________________
२५८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निहितवान् । स्वभोगेन च स प्रभोः पृष्ठाद्यङ्गं पिधाय फणैः सप्तभिः शिरसि च्छवं चकार । प्रभुश्च कमले राजहंस इव समाधिलीनस्तस्थौ । नागेन्द्रस्त्रियश्च प्रभोरग्रे गीत-नृत्यादिकं चक्रुः । तथाऽपि प्रभुानलीनो नागेन्द्रे मेघमालिनि च समवृत्तिरेवाऽस्थात् । एवं सत्यपि क्रोधाद् वर्षन्तं मेघमालिनं धरणेन्द्र उवाच-'तवैतद् नोचितम्, अत: परं प्रभोरहं सेवको न सहिष्ये, प्रभुणा हि काष्ठान्तर्दह्यमानः सर्पस्तवोपकारायैव दर्शितः । सर्पाणां पय:पानं विषायेव, प्रभोः सदुपदेशस्तव वैरायैवाऽभूत् । अधुना विरम, अन्यथा तव न शुभम्' । ___ मेघमाली च तद्वचः श्रुत्वाऽधोदृष्टिं दत्त्वा पार्श्वप्रभुं नागेन्द्रेण सेवितं दृष्ट्वा भीतोऽचिन्तयत्-'मम सर्वा शक्तिर्वृथा, प्रभुः करुणानिधिर्न ममाऽपकरिष्यति, तथाऽपि धरणेन्द्राद् भयमस्त्येव, तदयं प्रभुरेव शरणम्' । एवं विचिन्त्य स मेघान् संहत्य भीत: स्वामिनमुपगम्य नत्वा स्वं निन्दन् क्षमयित्वा च प्रभुं प्रणम्य सानुतापो निजं धाम जगाम । नागराजोऽपि प्रभुं निरुपसर्ग ज्ञात्वा स्तुत्वा नत्वा च स्वस्थानं जगाम । रात्रिरपि व्यतीयाय ।
नवमं पर्व - तृतीयः सर्गः सर्वविरतिभेदाद् द्विविधः । तत्र सर्वविरतिर्मुनीनां संयमादिभेदैर्दशविधः, देशविरतिस्तु गृहिणां पञ्चाऽणुव्रतानि त्रयो गुणाश्चत्वारि शिक्षाव्रतानि चेति द्वादशविधा । तत्र सातिचाराणि व्रतानि न धर्मायेति व्रते व्रते पञ्च पञ्चाऽतिचारा हेयाः ।
तत्राऽहिंसायां क्रोधाद् बन्ध-च्छविच्छेदा-ऽधिकभारारोपणप्रहारा-ऽन्नादिरोधाः । सूनृते मिथ्योपदेश-सहसाभ्याख्यान-गुह्यभाषणविश्वस्तमन्त्रभेद-कूटलेखाः । अस्तेये स्तेनानुज्ञा, स्तेनानीतादानद्विड्राज्यलङ्घन-प्रतिरूपक्रिया-कूटमानाः । ब्रह्मचर्ये वेश्या-परकीयासङ्गमा-ऽन्यविवाहन-कामकथाभिनिवेशा-ऽनङ्गक्रीडाः । अपरिग्रहे धन-धान्य-कुप्य-गवादिक्षेत्रवास्तु-हिरण्यादीनां सङ्ख्यातिक्रमश्चाऽतिचाराः । दीक्षितस्य बन्धनाद् भावतो गर्भाद् योजनाद् दानतश्च पञ्चधाऽप्येष नोचितः ।
दिग्विरतौ च स्मृत्यन्तर्धानोधिस्तिर्यग्भागव्यतिक्रमक्षेत्रवृद्धयोऽतीचाराः । भोगोपभोगमाने सचित्त-तत्सम्बद्ध-सन्मिश्रा-ऽभिषवदुष्पक्वाहारा अतीचाराः । तत्र सचित्तादयो भोज्यान्त त्याज्याः, कर्मत: खरकर्म त्याज्यं, तत्र पञ्चदश कर्मादानभूतान् मलान् विजह्यात् । ते चाऽङ्गार-वन-शकट-भाटक-स्फोटजीविका दन्त-लाक्षा-रसकेश-विषवाणिज्यकानि, यन्त्रपीडा निर्लाञ्छनमसतीपोषणं दवदानं सरःशोषश्चेति पञ्चदश ।
तत्राऽङ्गारभ्राष्ट्रकरणं कुम्भाय:-स्वर्णकारिता ठठारत्वेष्टकापाकावित्यङ्गारजीविका, छिन्ना-ऽच्छिन्नवनपत्र-पुष्प-फलविक्रयः कणानां दलनोत्पेषाद् वृत्तिश्च वनजीविका, शकटानां तदङ्गानां घट्टनं, खेटनं, विक्रयश्चेति शकटजीविका, शकटोक्षलुलायोष्ट्र-खरा-ऽश्वतर-वाजिनां
अथ प्रभुस्तत: स्थानाद् वाराणसी पुरीं गत्वोद्याने धातकीतरुतलेऽस्थात् । तदानीं च दीक्षादिनाच्चतुरशीतौ दिनेषु गतेषु चैत्रकृष्णचतुर्थ्यां विशाखास्थे चन्द्रे घातिकर्मक्षयात् पूर्वाह्ने पार्श्वप्रभोः केवलमुत्पन्नम् । देवैर्विहिते समवसरणे च यथाकल्पं रत्नसिंहासने समुपविश्य शक्रा-ऽश्वसेनाभ्यां स्तुतो धर्मदेशनां विदधे-'अस्मिन् भवकान्तारे जरा-मृत्यु-रोगादिगहने धर्मं विना नाऽन्यो जनस्य त्राता, तस्मात् स एवाऽऽराधनीयः । स च धर्मो देशविरति