________________
१८२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मलञ्चकार । तत्र सुरादिषु कृष्णादिषु च यथास्थानमुपविष्टेषु शक्रकृष्णाभ्यां स्तुतः प्रभुर्धर्मदेशनां चकार ।
तथाहि-'लक्ष्मीविद्युदिव दृष्टनष्टा, प्राणिनां सम्बन्धः स्वप्नवद् मिथ्या सापायश्च, यौवनमपि मेघच्छायावदस्थिरम्, आयूंषि च बुबुदवदल्पकालस्थायीनि । तस्मादसारेऽस्मिन् संसारे न किमपि सारं, दर्शन-ज्ञान-चारित्राराधनमेव केवलं सारम् । तत्र तत्त्वश्रद्धानं सम्यग्दर्शनं, यथावस्थिततत्त्वबोधो ज्ञानं, सावद्ययोगविरतिश्चारित्रं मुक्तिहेतुः । तद्यतीनां सर्वात्मना गृहस्थानां च देशत: स्यात् ।
देशविरतः श्रावको विरतोपासको भवस्वरूपज्ञ आजीवनं रात्रि भोजनं, मद्य, मांसं, नवनीतं, मधूदुम्बरपञ्चकमनन्तकायमज्ञातफलमामगोरससंयुक्तद्विदलं पुष्पितौदनं दिनद्वयातीतं दधि कुथितमन्नं च वर्जयेत् । मदिरापानतो बुद्धिर्नश्यति, विवेकादिकं विलीयते, मत्त इव जायते, विगोपनां च गच्छति । मद्ये रसोद्भवा बहवो जीवा भवन्ति, तस्माद् हिंसापातकभयाद् मद्यमवश्यमेव हेयम् । मद्यं दोषाणामापदां च कारणमिति तदवश्यं वर्जयेत् । दयाधर्ममिच्छता मांसं हेयमेव, हन्ता, मांसस्य विक्रेता, संस्कर्ता, भक्षकः, क्रेताऽनुमन्ता, दाता चैते सर्वे एव घातकाः । ये दिव्यभोज्येषु सत्स्वपि मांसमदन्ति, तेऽमृतं परित्यज्य विषं भुञ्जते । निर्दयस्य न धर्मो मांसाशिनश्च न दया । मांसभक्षणं च नरकहेतुः । नवनीते ह्यन्तर्मुहूर्तात् परतोऽतिसूक्ष्मा जन्तुराशयो मूर्च्छन्ति, तद्विवेकिभिनवनीतं न भक्षणीयम् । मधु चाऽनेकजन्तुहिंसालभ्यं जुगुप्सनीयं न स्वाद्यम् । तद्धि मक्षिकोच्छिष्टं धार्मिकाणामनहम् । औषधार्थमपि भक्षितं तद् नरकहेतुः ।
अष्टमं पर्व - नवमः सर्गः
...१८३ उदुम्बरवटादीनां च कृमिसङ्कीर्णं फलं न भक्षणीयम् । पुण्यात्मा जनः क्षुत्क्षामोऽपि पञ्चोदुम्बरजं फलं न भक्षयति । तथाऽऽर्द्रः, कन्दः, सर्वः किसलयः, स्त्रही. शतावर्यादयः. सत्रोक्ता अनन्तकाया दयालुभिः प्रयत्नतो वर्जनीयाः । निषिद्धे विषफले वा प्रवृत्तिर्मा जनिष्टेत्यज्ञातं फलं नाऽश्नीयात् । यत्र निरङ्कुशं सञ्चरद्भिः प्रेतादिभिरन्नमुच्छिष्टं क्रियते तत्र रात्रौ नाऽद्यात्, अन्धकारे पन्ने पतन्तो जन्तवो न निरीक्षितुं शक्याः । पीपिलिका मेधां नाशयति, यूका जलोदरहेतुः, मक्षिका वान्ति करोति, कोलिकः कुष्ठरोगहेतुः, कण्टकादिकं च गलव्यथां करोति, व्यञ्जनान्त: पतितो वृश्चिकश्च तालु विध्यति, गले लग्नश्च केशः स्वरभङ्गं करोति । एते च दोषा रात्रिभोजने दृष्टा एव सर्वेषाम् । तस्मात् प्रासुकान्यपि रात्रावप्रेक्ष्य नाऽश्नीयात् । निशि भुञ्जाना हि राक्षसेभ्यो नाऽतिशेरते ।
यश्च दिनस्य मुखेऽवसाने च द्वे द्वे घटिके त्यक्त्वा निशाभोजनदोषज्ञोऽत्ति स पुण्यं लभते, रात्र्यभोजननियममकृत्वा दिने एव भुञ्जानोऽपि फलं न लभते, भाषणं विना हि न वृद्धिः । रात्रिभोजनाद्धि काकादियोनिषु जायन्ते । यो धन्यो रात्रिभोजनाद् विरतिं करोति सोऽवश्यं निजायुषोऽर्धमुपोषितः स्यात् । रात्रिभोजनत्यागोऽसङ्ख्येयसद्गुणहेतुः । आमगोरससंयुक्तद्विदलादिषु सूक्ष्मा जन्तवः केवलिभिर्दृष्टाः, तस्मात् तानि परिवर्जयेत् । दयालुर्जन्तुमिश्रं फलं पुष्पं पत्र लेह्यचोष्यादिकं च त्यजेत् । एवं दयाप्रधानो भोज्येष्वपि विवेकी श्रावकः क्रमात् संसाराद् मुच्यते' ।
एवं प्रभोर्देशनां श्रुत्वा वरदत्तो नृपो विरज्य व्रतोत्सुको जज्ञे । कृष्णेन च नत्वा राजीमत्या विशेषानुरागकारणं पृष्टः प्रभुधनवतीभवादारभ्य तया सहाऽष्टभवावधि स्वसम्बन्धमाख्यत् । ततो