________________
mom५५
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः महाखगैरम्बुधिक्षेपणेऽपि तदानीमवसर्पिण्या भ्रश्यमानस्वभावत्वात् तच्छरीरं तथैव तस्थौ । ततोऽवशिष्टां बालिकां तज्जनको युगलिको पालयामासतुः, "सुनन्दे "ति नाम चक्रतुश्च । ततः कतिपयैदिनैः पित्रयोर्मृत्योः सतो: किंकर्तव्यविमूढां सर्वाङ्गेषु शुभलक्षणयुक्तामसाधारणसुन्दरी तां सुनन्दामेकाकिनी वने भ्राम्यन्ती मुग्धामवलोक्य युगलिकाः किंकर्तव्यविमूढाः सन्तो नाभिसमीपमुपानीतवन्तः । "एषा ऋषभनाथस्य धर्मपत्नी भवत्वि"ति कृत्वा नाभिस्तां प्रतिजग्राह।
अस्मिन्नेवाऽवसरे शक्रोऽवधिज्ञानतो जिनस्य विवाहसमयं ज्ञात्वा समागत्य प्रणम्य पुरतः स्थित्वा च बद्धाञ्जलि:-"वीतरागेणाऽपि भवतैव मोक्षमार्ग इव लोकव्यवहारमार्गोऽपि प्रकटयिष्यते इति लोकव्यवहाराय भवता विधीयमानं पाणिग्रहमहोत्सवं द्रष्टमिच्छामि. तत्स्वानुरूपे रूपवत्यौ देव्यौ सुमङ्गला-सुनन्दे उद्बोढुमर्हती"ति व्यजिज्ञपत् । जिनोऽपि पूर्वलक्षाणां त्र्यशीति यावदवश्यभोक्तव्यं कर्माऽवधिना ज्ञात्वा शिरः कम्पयन्नधोमुखस्तस्थौ । ततो जिनस्याऽभिप्रायमुपलक्ष्य शक्रो विवाहकारम्भाय देवानजूहवत् ।
ततः शक्राज्ञयाऽऽभियोगिका देवाः स्वर्ण-माणिक्य-रजतस्तम्भैः सुवर्णकुम्भैः सुवर्णवेदिकाभिर्मणिभित्तिभिः पाञ्चालिकाभिः सतोरणस्फाटिकद्वारैरार्द्रवंशैरुल्लौचैश्च मनोहरं मण्डपं रचयामासुः ।।
ततो रम्भाद्या अप्सरसो विवाहसामग्री सम्पाद्य मङ्गलस्नानाथ सुमङ्गलां सुनन्दा चाऽऽसने समुपवेश्य सुगन्धितैलेन तयोः सर्वाङ्ग मभ्यज्य पिष्टातकैरुद्वर्त्य पुनरन्यस्मिन्नासने समुपवेश्य सुवर्णकुम्भोदकैः स्नपयामासुः । ततो गन्धकाषाय्याऽङ्गप्रमार्जनं विधाय, केशान् सूक्ष्मवस्त्रेण वेष्टयित्वा, क्षौमाणि वस्त्राणि परिधाप्य, पुनरासनान्तरे समुपवेश्य, निर्गलितजलानीषदा न् तयोः कुन्तलान् दिव्यधूपेन धूपायित्वा
प्रथमं पर्व - द्वितीयः सर्गः पादानलक्तकरसेनाऽमण्डयन् ता: ग्रीवाभुजादिषु पत्रलतां लिखित्वा ललाटे तिलकं विधाय, नेत्राण्यञ्जयित्वा, समाल्यं धम्मिल्लं बवा, पारिणेत्राणि वस्त्राणि परिधाप्य शिरसि मणिकिरीटौ न्यस्य कर्णाद्यवयवेषु मणिमयकुण्डलाद्याभरणानि विनिवेश्य तत आसनादुत्थाप्य मातृकागृहस्थकाञ्चनासने तो समुपवेशयामासुः ताः ।
अथ शक्रेण विवाहार्थं सज्जीभवनाय विज्ञापितो जिनो "लोके स्थितिदर्शनीया, भोग्यकर्म भोक्तव्यं चे"ति चिन्तयित्वा तद्वचोऽमन्यत । ततः शक्रो जिनं स्नपयित्वा, भूषणादि परिधाप्य, देवीषु मङ्गलानि गायन्तीषु, वाद्येषु गन्धर्वैर्वाद्यमानेषु च दिव्ययानेन मण्डपद्वारमानीतवान् । तत्र यानादवतीर्य जिनः शक्रेण दत्तबाहुरतिष्ठत् ।
स्त्रियश्च द्वारि लवणानलगर्भ शरावसम्पुटं मुक्त्वा दूर्वादिमङ्गल्यद्रव्यसहितं रूप्यस्थालं पुरतः स्थापयित्वा जिनाय वरायाऽर्घ ददुः । ततो जिनस्य भालं मन्थानेन त्रिः स्पृष्ट्वा शरावसम्पुटं च तेन पदा दलयित्वा कण्ठे प्रक्षिप्तेन कौसुम्भवस्त्रेणाऽऽकृष्यमाणं जिनं मातृकागृहमुपनीतवत्यः । तत्र च वधू-वराणां हस्तेषु मदनफलोपशोभितं हस्तसूत्र बबन्धुः । ततो मातृकादेवीनामग्रतः काञ्चनासने जिनं समुपवेश्य शम्यश्वत्थत्वचौ पिष्ट्वा तयोः कन्ययोः पाणौ हस्तालेपं विदधुः । ततो जिनः शुभलग्नोदये हस्ताभ्यां हस्तालेपयुतौ तयोः कन्ययोर्हस्तावग्रहीत्। ततः शक्र: कन्याहस्तस्थहस्तालेपान्तरूमिकां चिक्षेप । ततस्तारामेलक विधौ वधू-वराणां नेत्राणि मनांसि च परस्परमयुज्यन्त । तदानीं च सामानिकादयो देवा अनुचरीभूय जिनस्य पार्श्वेषु तस्थुः । पार्श्वस्था नर्मचतुराः स्त्रियश्च कौतुकधवलान् जगुः । जिनश्च "लोकेषु व्यवहारोऽयं दर्शनीय" इति तदुपेक्षितवान् ।
ततः शक्रो जिनस्याऽञ्चलौ वध्वोरञ्चलाभ्यां बबन्ध । कट्यां जिनमारोह्य च भक्त्या वेदिगृहं प्रत्यचलत् । वध्वावपीन्द्राणीभ्यां