________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तामिक्षुयष्टि समपेक्षुग्रहणादिक्ष्वाकुरित्याख्यया जिनवंशं प्रतिष्ठाप्य दिवं ययौ।
जिनस्य जन्मत एव देह: स्वेद-रोगादिरहितः सुगन्धिः, मांसशोणिते च धवले अविस्ने च, आहार-नीहारक्रिया चाऽदृश्या, श्वासश्च कुमुदगन्धिरित्येते चत्वारोऽतिशया बभूवुः । तथा वज्रर्षभनाराचसंहननं, गम्भीरमधुरध्वनिः, संस्थानं समचतुरस्रं च बभूव । स च वयस्यीभूयाऽऽगतैः सुरकुमारैः सह रममाणो धूलिधूसराङ्गोऽन्तर्मदावस्थ: करिशावक इव बभौ । जिनेन पाणिना गृहीतं वस्तु च देवोऽप्याच्छेत्तुं समर्थो न जातः । बलपरीक्षार्थं च तस्याऽङ्गुलिग्राहक स्तच्छ्वासपवनोत्क्षिप्तो दूरं ययौ । तथा देवकुमारैः सह कन्दुकादिक्रीडां कुर्वन् धात्रीभिः सावधानं लाल्यमाश्च जिनः क्रमेण ववृधे । तथाऽङ्गुष्ठपानावस्थामतिक्रम्य वयःस्था अपरे जिना गृहवासे सिद्धान्नभोजनाः, स प्रथमो जिनो देवानीतोत्तरकुरुफलानि बुभुजे क्षीरोदधिवारि च पपौ।
अथ बाल्यात् परतो द्वितीये वयसि जिनस्य मृदू रक्तावुष्णावकम्प्रावस्वेदौ समतलौ चक्र-माल्या-ऽङ्कुश-ध्वजरेखायुक्तौ च पादौ, पादतले शङ्ख-कुम्भमुद्रे, पार्णौ स्वस्तिकः, अङ्गष्ठो मांसलो वर्तुलस्तुङ्गश्च, नीरन्ध्रा ऋजवश्चाऽङ्गुल्यः, पदाङ्गुलितलेषु नन्द्यावर्ताः, अङ्गुलिपर्वसु च यवाः, पाणित्तायत: पृथुश्च, पादाङ्गुष्ठादिनखाश्च मणितुल्याः, गुल्फो गूढौ वृत्तौ च, पादोपरिप्रदेशश्च कूर्मवदुन्नतो लोमरहितश्च, जो क्रमवर्तुले गौरवणे च, जानुनी मांसले वर्तुले च, ऊरू कदलीस्तम्भवद् मृदुलौ स्निग्धौ क्रमपीवरौ च, मुष्कौ च गूढौ समस्थिती च, वाजिनः कुलीनस्येव पुंश्चिह्नमतिगूढं, कटिरायता मांसला स्थूला विशाला कठिना च, मध्यभागस्तनुः, नाभिर्गम्भीरा, कुक्षी स्निग्धौ मांसलौ सरलौ कोमलौ च, वक्षःस्थलं पृथुलमुन्नतं श्रीवत्सरत्नपीठावं,
प्रथमं पर्व - द्वितीयः सर्गः स्कन्धौ दृढौ पीनावुन्नतौ च, कक्षे गन्धस्वेदमलरहिते अल्परोमणी उन्नते च, भुजावाजानुलम्बिनौ पीनौ च, पाणी रक्तौ कोमलौ स्वेदरहितौ निश्छिद्रावुष्णौ दण्डचक्रादिलक्षणयुक्तौ च, पाण्यङ्गष्ठादयो रक्ता: सरलाश्च, अङ्गुष्ठपर्वसु यवाः, अङ्गुल्यग्रेषु च प्रदक्षिणावर्ताः शङ्खाः, मणिबन्धे च तिस्रो रेखाः, कण्ठो वर्तुलोऽनतिदीर्घो रेखात्रयाङ्कितश्च, मुखं वर्तुलं कान्तिमत् स्वच्छं च, कपोलौ मसृणौ मांसलौ स्निग्धौ च, ओष्ठौ बिम्बवद् रक्तौ, दन्ता द्वात्रिंशत् श्वेताश्च, नासिका च क्रमविशाला क्रमोत्तुङ्गवंशा च, चिबुकं कोमलं वर्तुलं मांसलमहस्वदीर्घ च, की स्कन्धावलम्बिनावन्तरावर्ती च, जिह्वा प्रवालारुणा कोमलाऽनतिस्थूला च, पक्ष्माणि कज्जलश्यामानि, ध्रुवौ कुटिले श्यामले च, भालस्थलं विशालं वृत्तं मांसलं समं मसृणं कठिनं च, मौलिश्छत्रवत् क्रमसमुन्नतो वृत्तोत्तुङ्गोष्णीषविभूषितश्च, केशा: कुञ्चिता: कोमला: स्निग्धाश्च, त्वक् च गौरवर्णा स्निग्धस्वच्छा. तनौ लोमानि च मृदूनि श्यामानि सूक्ष्माण्यद्वितीयोद्गमानि चेत्येतैरसाधारणैर्लक्षणैर्लक्षितः स रत्नै रत्नाकर इव सर्वस्य सेव्यो बभूव ।
तादृशः स महेन्द्रेण दत्तहस्तावलम्बो यक्षैर्वीजितचामरो धरणेन्द्रकृतद्वारपालत्वो वरुणेन धृतच्छचो 'जीव जीवे'ति वादिभिर्देवैः परिवृतो निर्गविस्वभावो यथासुखं विजहार । तथा देवानीतासनोपविष्टो बलीन्द्राङ्कस्थापितचरणश्चमरेन्द्राङ्कस्थापितोत्तराङ्गः शाटकाञ्चलहस्ताभिरप्सरोभिरुभयत उपास्यमानोऽनासक्तः सन् दिव्यं सङ्गीतादि प्रेक्षितवान् ।
अथैकदा बालक्रीडां कुर्वन्तौ कावपि युगलिको तालवृक्षतलं गतौ । तदैव च दैवात् तालफलं पुरुषमूर्धन्यपतत् । तेन च तत: पूर्व कस्याऽप्यपमृत्य्वभावात् प्रथमेनाऽपमृत्यूना काकतालीयन्यायेन हतः स बालोऽल्पकषायत्वाद् दिवं जगाम । पुरा मृतमिथुनशरीराणां