________________
टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
कट्यामारोह्य जिनेन समं योजितकराग्रे चालिते । तथा पूर्वद्वारेण वेदिगृहं विविशुश्च । तत्र च कोऽपि त्रयस्त्रिंशसुरो वेदिकुण्डे वह्निमाविश्चकार । तत्र समिधो निक्षेपाच्च धूमलेखा दिवं व्याप्तवती । जिनश्च सुमङ्गला - सुनन्दाभ्यां सह तमग्नि परितो भ्राम्यन्नष्टमङ्गलीं पूरयामास । ततः शक्रो मङ्गलगीतपुरस्सरं करमोक्षणमञ्चलमोक्षणं च कारयामास । तदानीं च जिनविवाहोत्सवहर्षात् तत्र सभार्यः शक्रोऽन्येऽपि च देवा ननर्तुः, गन्धर्वाश्च जगुः । ततो जिनस्ताभ्यां वधूभ्यामुभयपार्श्वस्थाभ्यां सह दिव्ययानाधिरूढः स्वस्थानमगमत् । शक्रादयश्च जिनं नत्वा स्वस्थानं जग्मुः । ततः प्रभृति च जिनप्रदर्शितः स विवाहविधिः परार्थमपि प्रावर्त्तत । जिनोऽपि सद्वेदनीयस्याऽपि कर्मणोऽन्यथा क्षयाभावात् पत्नीभ्यां सहाऽनासक्तो भोगान् बुभुजे ।
५६
अथ विवाहानन्तरं किञ्चिदूनेषु षट्सु पूर्वलक्षेषु व्यतीतेषु बाहुपीठजीवौ सर्वार्थसिद्धितश्च्युत्वा सुमङ्गलादेव्याः कुक्षौ युग्मत्वेनाऽवातेरतुः। सुबाहु-महापीठजीवौ च सर्वार्थसिद्धितश्च्युत्वा सुनन्दाकुक्षाववातेरतुः । तदैव च मरुदेवीव सुमङ्गला स्वप्ने चतुर्दशमहास्वप्नान् दृष्ट्वा स्वामिनेऽकथयत् । जिनश्च "चक्रवर्त्ती तव पुत्रो भविष्यती"त्युदतरत् । ततः सुमङ्गला भरत-ब्राह्मयावपत्ये सुनन्दा च बाहुबलि - सुन्दर्यावपत्ये सुषुवाते । सुमङ्गला चाऽपरानपि एकोनपञ्चाशतं युगलिकानसूत । जिनश्च तैरपत्यैः परिवृतो भूरिभि: शाखाभिर्महाशाखीव शुशुभे ।
***
तदा च कालप्रभावेण कल्पतरवः प्रभावहीना जाता: । युगलिकाश्च सकषायाः सन्तः पूर्वोक्तदण्डनीतित्रयमत्यलङ्घयन् । ततस्ते युगलिका मिलित्वा ऋषभनाथं तदनिष्टं विज्ञपयामासुः । ज्ञानत्रयधरो जातिस्मरो जिनश्च "मर्यादाभञ्जकानां शासिता राजा
प्रथमं पर्व द्वितीयः सर्गः
भवति, स चाऽत्युच्च आसने प्रथममभिषिक्तश्चतुरङ्गबलोपेतोऽखण्डशासनो भवतीत्युक्तवान् । तैश्च तादृशस्याऽन्यस्याऽभावात् त्वमेवाऽस्माकं राजा भवेति प्रार्थितो जिनो "नाभि कुलकर श्रेष्ठं प्रार्थयत, स राजानं दास्यती"त्युदतरत् । ततस्तैः प्रार्थितेन नाभिना "ऋषभो भवतां राजे" ति कथितास्ते युगलिकाः प्रमुदिताः समागत्य "नाभिना त्वमेवाऽस्माकं राजाऽर्पितोऽसीति ऋषभनाथमूचिरे । तत ऋषभनाथाभिषेकार्थं जलाय युगलिका ययुः ।
५७
शक्रश्चाऽऽसनकम्पनात् प्रभो राज्याभिषेकसमयमवधिना ज्ञात्वा तत्राऽऽययौ । ततः सौधर्मेन्द्रः काञ्चनवेदिकां निर्माय तत्र सिंहासनं निधाय देवानीतैस्तीर्थजलैः ऋषभस्वामिनो राज्याभिषेकं चकार । ततो दिव्यवस्त्राणि परिधाप्य किरीटादीनि रत्नालङ्करणानि प्रभोरङ्गेषु यथास्थानं निवेशितवान् । अत्राऽन्तरे कमलपत्रैर्जलानि गृहीत्वा समागता युगलिका अर्धमादाय भूषितं प्रभुं दृष्ट्वा स्थिताः "दिव्यवेषस्य प्रभोः शिरसि क्षेतुं न युक्त" मिति पादयोर्जलं चिक्षिपुः । तेन "इमे साधु विनीता" इति शक्रः कुबेरं विनीताख्यां पुरीं निर्मातुमादिश्य दिवं ययौ । ततः कुबेरो द्वादशयोजनदीर्घं नवयोजनविस्तृतामयोध्येत्यपराख्यां विनीतां पुरीं निर्माय तामक्षय्यवस्त्र- नेपथ्य-धनधान्यैः पूरयामास ।
तदा प्रभुर्जन्मतः पूर्वलक्षाणां विंशतौ गतायां तस्यां नगर्यां नृपाणां प्रथमः प्रजाः पालयितुं नृपो बभूव । निजान्यपत्यानीव प्रजाः पालयामास च । तथाऽसाधुशासने साधुपालने च निपुणान् मन्त्रिणश्चौर्यादिरक्षणे दक्षानारक्षांश्च नियुज्य, राज्ये स्थित्यै सेनाया उत्कृष्टान्यङ्गानि हस्तिनस्तुरगान् रथान् पत्तश्च परिगृहीतवान् । तत्र च नवसाम्राज्यसौधस्य स्तम्भानिव बलीयसः सेनापतीन् स्थापयामास । गवादींश्चाऽपि तदुपयोगज्ञः प्रभुः परिगृहीतवान् ।