________________
_
४७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वज्रदण्डं बिभ्राणो जगत्पतेरग्रेसरो द्वा:स्थ इव बभूव । ततो जयजयारावकरैरमरैः परिवृताः पञ्चेन्द्रा उत्पत्याऽम्बरेण मेरुपर्वतं प्रापुः । तत्र पाण्डकवने चूलिकां दक्षिणेनाऽतिपाण्डुकम्बलाख्यायां शिलायामर्हत्स्नात्रा सिंहासने निजाङ्कस्थापितजिनः सौधर्मेन्द्रः सहर्ष पूर्वाभिमुखः समुपाविशत् ।
अत्राऽन्तरे महाघोषाख्यघण्टानादप्रबोधितैरष्टाविंशतिविमानलक्षवासिभिरमरैः परिवृत्तः शूलभृद् वृषवाहन: पुष्पकाख्याभियोग्यनिर्मिते पुष्पकाख्ये विमाने स्थितः ऐशानकल्पाधिपतिः, द्वादशलक्षविमानवासित्रिदशपरिवृतः सुमनोविमानस्थः सनत्कुमारः, अष्टलक्षविमानस्थदेवैः परिवृत्तः श्रीवत्सविमानस्थो महेन्द्रः, चतुर्लक्षविमानस्थदेवपरिवृतो नन्द्यावर्त्तविमानस्थो ब्रह्मा, पञ्चाशत् सहस्रविमानसुरसमन्वितः कामगवविमानस्थो लान्तकः चत्वारिंशत् सहस्रविमानस्थदेवपरिवृत्तः प्रीतिगमविमानस्थ: शुक्रः, षट्सहस्त्रविमानस्थवासिसुरसमन्वितो मनोरमविमानस्थः सहस्रारः, चतुःशतविमानस्थसुरान्वितो विमलविमानस्थ आनत-प्राणतेन्द्रः, शतत्रयविमानस्थदेवपरिवृत्तः सर्वतोभद्रविमानस्थ आरणाच्युतेन्द्रश्च तत्र समाययुः ।
इतश्च रत्नप्रभामेदिन्या अन्तर्निवासिनां भवन-व्यन्तरेन्द्राणामासनानि चकम्पिरे । तदा चमरचञ्चापुर्यां सुधर्मायां सभायां चमराख्ये सिंहासने समासीनश्चमरासुरोऽवधिना जिनजन्म ज्ञात्वा लोकज्ञापनाय सेनापतिना द्रुमाख्येणौघस्वराख्यां घण्टामवादयत् । सदेवीपरिच्छदश्च पञ्चशतयोजनोच्चं पञ्चाशत्सहस्त्रयोजनविस्तृतं महाध्वजविभूषितं विमानमधिरुह्य चमरासुरः, बलिचञ्चानगर्या असुरेश्वरो बलिश्च महाद्रमाख्येन चमपतिना महौघस्वरां घण्टां वादयित्वा ज्ञापितैः सामानिकदेवादिभिः परिवृतो मेरुगिरिं जग्मतुः । नागेन्द्रो
प्रथमं पर्व - द्वितीयः सर्गः धरणश्चाऽपि भद्रसेनेन चमूपतिना मेघस्वराघण्टावादनाज्ज्ञापितैः सुरैर्देवीभिश्च समन्वितः सार्धद्विशतयोजनतुङ्गं पञ्चविंशतिसहस्त्रयोजनविस्तृतमिन्द्रध्वजभूषितं विमानमारुह्य भगवद्दर्शनोत्सुको मेरुगिरिशिखरमाससाद । नागेन्द्रो भूतानन्दश्चाऽपि दक्षाख्यचमूपतिना मेघस्वराघण्टावादनाज्ज्ञापितैर्देवैः समन्वितो विमानमारुह्य मन्दराचलं जगाम। ___ तथा विद्युत्कुमाराणामिन्द्रौ हरि-हरिसहौ, सुपर्णकुमाराणामिन्द्रौ वेणुदेव-वेणुदारिणौ, अग्निकुमारेन्द्रावग्निशिखाग्निमाणवौ, समीरणकुमारेन्द्रौ वेलम्ब-प्रभञ्जनौ, स्तनितेन्द्रौ सुघोषमहाघोषौ, उदधिकुमारेन्द्रौ जलकान्त-जलप्रभौ, द्वीप कुमारेन्द्रौ पूर्णविशिष्टौ, दिक्कुमारेन्द्रावमितामितवाहनौ, व्यन्तरेषु पिशाचेन्द्रौ काल-महाकालौ, भूतेन्द्रौ सुरूप-प्रतिरूपौ, यक्षेन्द्रौ पूर्णभद्रमाणिभद्रौ, राक्षसेन्द्रौ भीम-महाभीमौ, किन्नरेन्द्रौ किन्नर-किंपुरुषौ, किंपुरुषेन्द्रौ सत्पुरुष-महापुरुषौ, महोरगेन्द्रावतिकाय-महाकायौ, गन्धर्वेन्द्रौ गीतरति-गीतयशसौ, तथा व्यन्तराष्टनिकायेष्वप्रज्ञप्तीनामिन्द्रौ सन्निहित-समानको, पञ्चप्रज्ञप्तीनामिन्द्रौ धातृ-विधातारी, ऋषिवादितकानामिन्द्रावृषि-ऋषिपालको, भूतवादितानामिन्द्रावीश्वर-महेश्वरी, क्रन्दितेन्द्रौ सुवत्सक-विशालको, महाक्रन्दितेन्द्रौ हासहासरती, कुष्माण्डेन्द्रौ श्वेत-महाश्वेतौ, पावकेन्द्रौ पवक-पवकपती, ज्योतिष्काणामसङ्ख्यातौ चन्द्राऽऽदित्यौ चेति शक्राणां चतुष्षष्टिभैरुगिरावाजगाम।
अथाऽच्युतेन्द्रेण "जिनजन्माभिषेकोपकरणान्यानयन्त्वि"त्यादिष्टा आभियोगिकाः सुराः क्षणादुत्तरपूर्वदिशि किञ्चिदपक्रम्य वैक्रियसमुद्घातेनोत्तमपुद्गलानाकृष्य सुवर्ण-रजत-रत्नादिमयान् प्रशस्यान्