________________
Pos
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कलशान् प्रत्येकमष्टोत्तरसहस्रं विचक्रुः । प्रत्येकं कलशसङ्ख्यातान् स्वर्णादिमयान् भृङ्गार-दर्पण-रत्नकरण्ड-सुप्रतिष्ठक-स्थाल-पात्रिकापुष्पचङ्गेरिकादींश्च विकृत्येन्द्राग्रे ढोकयामासः । तथा ते आभिगोयिका देवास्तान् कलशानादाय क्षीरोदधौ वारि-कमलादीनि, पुस्करोदे कमलानि, भरतैरावतादीनां मागधादितीर्थेषु जलानि प्रशस्तमृत्तिका च, गङ्गादीनां महानदीनामुदकानि, क्षुद्रहिमवगिरौ सिद्धार्थपुष्पकषायगन्धान् सौषधीश्च, पद्महूदे सुगन्धीनि पवित्राणि निर्मलानि जलानि कमलानि च, अन्यवर्षधरपर्वतेभ्योऽपि जलादीनि, अखिलक्षेत्र-वैताढ्य-विजयेषु वक्षारकगिरि-देवोत्तरकुरुषु भद्रशालनन्दन-सौमनस-पाण्डकादिवनेषु च जल-कमल-गोशीर्षचन्दनादीनि च गृहीत्वा मेलयित्वा च शीघ्रं मेरुशिखरं समाजग्मुः ।
तत आरणाच्युतकल्पेन्द्रो दशसहस्रसामानिकदेवैस्तच्चतुगुणात्मरक्षैस्त्रयस्त्रिंशत्रायस्त्रिंशैस्तिसृभिः परिषद्भिश्चतुर्भिर्लोकपालैः सप्तभिर्महानीकैः सप्तभिरनीकैश्च परिवारितः शुचिजिनं स्नपयितुं समुपास्थित । सुगन्धिना प्रचुरधूपधूमेन धूपायित्वा जिनस्य पुरतो विकसितकल्पतरुपुष्पाञ्जलि मुमोच । ततो देवैः समानीतान् गन्धजलपूरितान् माल्यसमन्वितान् कुम्भान् ससामानिकदेवोऽच्युतेन्द्रः समादाय स्वशिरःकलशांश्च मनाग नमयन् जिनं स्नपयितुमारेभे । तदा च केचन पटहान्, दुन्दुभीन्, कांस्यतालानि, भेरी!शृङ्गाणि, मुरजान्, झल्लरी:, शांश्च वादयन्ति स्म । चारणश्रमणाश्च जयजयारावं चक्रुः । ततोऽच्युतेन्द्रो देवैः सह स्तुति पठित्वा जिनमूर्धनि कुम्भान् प्रलोठयामास । भूम्यप्राप्तमेव च जिनस्नात्रजलं केचन जगृहः, इदं भूयः क्व प्राप्स्यते ? इति मूर्धनि चिक्षिपुश्च । एवं पुनः पुना रिक्तभरितैः कुम्भकोटिभि: स्नात्रं विधायाऽच्युतेन्द्रो दिव्यगन्धद्रव्येण जिनाङ्गं प्रमार्जयामास ।
प्रथमं पर्व - द्वितीयः सर्गः
अथाऽऽभियोगिकदेवोपनीतनानाविधपात्रस्थगोशीर्षचन्दनद्रवकर्दमैश्च विलेपयितुमारेभे । तदा च केचनोत्तरासङ्गधारिणो देवा उद्दामधूपाग्निपाणयस्तस्थुः । केपि तत्र धूपद्रव्यं चिक्षिपुः । केऽपि श्वेतातपत्रं धारयामासुः । केचिच्चामराणि वीजयामासुः । केचिच्च बद्धपरिकरा: स्वं स्वमायुधमादाय जिनं परितस्तस्थुः । केचिच्च मणि-स्वर्णव्यजनानि वीजयामासुः । केचिच्च हर्षप्रकर्षाद् दिव्यनानाविधपुष्पवृष्टिमकार्षुः । केचिच्च नितान्तसुरभि गन्धद्रव्यचूर्णं जिनं परितो वर्षयामासुः । एवं केचित् स्वर्णवृष्टि, केचिच्च रत्नवृष्टिं चक्रुः। केचिच्च स्वामिनं नवनवैामरागैर्जगुर्वाद्यानि वादयामासुश्च । केचिच्च नाट्यं प्रवर्त्तयामासुः । केचिच्च नानाविधक्रीडा रासहल्लीसकादीनि च चक्रुः । तथाऽच्युतेन्द्रो विलेपनं कृत्वा विकासिभिः कल्पतरुकुसुमैभक्त्या जिनेश्वरं पूजयामास । ततः किञ्चिदपसृत्य नम्रो जिनेश्वरं ननाम तुष्टाव च । एवमन्येऽपि द्वाषष्ठिः शक्रा अनुज्येष्ठं जिनेश्वरस्य स्नात्राऽङ्गराग-पूजा वितेनुः ।
तत ऐशानेन्द्र आत्मानं पञ्चधा विकृत्य जिनमेक उत्सङ्गेऽकरोत् । अन्यश्च जिनमूनि श्वेतच्छत्रमधात् । द्वौ जिनं चामराभ्यां वीजयामासतुः । अपरश्च हस्ते शूलमुल्लालयन् जिनस्याऽग्रतोऽभवत् ।
अथ सौधर्मेन्द्रो जिनस्य चतुर्दिशं चत्वारि स्फाटिकोत्तुङ्गवृषभरूपाणि निरमासीत् । तेषां वृषभाणामष्टभ्यः शृङ्गेभ्य उत्पतन्तीभिः सुरासुरवधूजनैः सकौतुकं वीक्ष्यमाणाभिर्जलधाराभिर्जिनस्य स्नपनं चकार । दूरमुच्छलता च जिनस्नपनवारिणा देवानां वासांस्याःणि जातानि । एवं स्नपयित्वा चतुरोऽपि वृषभानुपसंहृत्य दिव्यवस्रेणाऽङ्गं प्रमाय जिनाग्रे रत्नमये पट्टेऽखण्डै रूप्यतण्डुलैरष्टमङ्गलीमालिखत् । श्रेष्ठेनाऽङ्गरागेणाऽङ्गं विलिप्य विशुद्धैर्दिव्यवासोभिः पूजां विधाय