________________
टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
प्रसूतिगृहात् पूर्वदक्षिणोत्तरदिक्षु त्रीणि श्रीगृहाणि कदलीगृहाणि च विचक्रुः । प्रत्येकं तेषां मध्ये स्वविमानवद् विशालं सिंहासनभूषितं चतुःशालं विचक्रिरे। दक्षिणचतुःशाले कराञ्जलौ जिनं न्यस्य तन्मातरं चोपनीय सिंहासने समुपवेश्य सुगन्धिना लक्षपाकतैलेनाऽभ्यानञ्जुः । दिव्येनोद्वर्त्तनेन सप्रमोदमुद्वर्त्य ततः प्राक्चतुःशाले समुपनीय सिंहासने समुपवेश्य निर्मलैरम्भोभिः स्नपयित्वा गन्धकषायवस्त्रैरङ्गानि प्रमृज्य गोशीर्ष-चन्दनरसैश्चर्चयामासुः । देवदूष्ये वस्त्रे चित्राण्याभरणानि च परिधाप्योत्तरचतुःशाले नीत्वा सिंहासनस्योपरि समुपवेश्याऽऽभियोगिकैर्देवैः क्षुद्रहिमालयगिरेगशीर्षचन्दनेन्धनानि शीघ्रं समानाय्याऽरणि-काष्ठाभ्याममग्निमुत्पाद्य तत्र होमं वितेनुः । तद्वह्निभस्मना रक्षापोट्टलिकां विधाय प्रभोः कर्णान्तिके "पर्वतायुर्भवे" त्युच्चैरुक्त्वा पाषाणगोलकौ परस्परं समास्फालयामासुः । पुनर्मरुदेवां जिनं च सूतिकाभवने शय्यागतौ विधाय मङ्गलानि गायन्त्यस्तस्थुः ।
४४
अथेतश्च स्वर्गेषु युगपच्छाश्वतीनां घण्टानां ध्वनिरुच्चकैर्बभूव । इन्द्राणामासनानि हृदयानि च चकम्पिरे । तेन क्रुद्धः स्फुरदधरः सौधर्मेन्द्रः "कस्य पत्रमद्य कृतान्तेन करे गृहीत" मिति ब्रुवन् वज्रमादित्सते स्म । तं तथा दृष्ट्वा सेनापतिर्व्यजिज्ञपत्- "किङ्करे मयि सति स्वयमावेशस्य किं कारणम् ? कं तव शत्रुं चूर्णयामीति समादिश” । तत: समाहितमना इन्द्रोऽवधि प्रयुज्य प्रथमतीर्थकृज्जन्म ज्ञात्वा तत्क्षणाद् विगलितक्रोधः "मया चिन्तितमिदं धिक मम मिथ्यादुष्कृतमस्त्विति ब्रुवन् सिंहासनं विजहौ । स सप्ताष्टपदानि गत्वा शिरस्यञ्जलिं कृत्वा जानुशिरःस्पृष्टभूपृष्ठो नत्वा रोमाञ्चितोऽर्हन्तं स्तोतुं प्रचक्रमे ।
ततो नैगमेषिणं- "जम्बूद्वीपे भरतदक्षिणार्धमध्यमभूभागे कुलकरस्य नाभेः पल्यां मरुदेवायां पुत्रः प्रथमतीर्थकरो जातोऽस्तीति
प्रथमं पर्व द्वितीयः सर्गः
तज्जन्मस्नात्रहेतवे सर्वे सुरा आहूयन्ता" मित्यादिशत् । ततः स योजनविस्तारां सुघोषाख्यां घण्टामवादयत् । तेन च सर्वेषामन्यविमानानां घण्टा नेदुः । तेन च सावधानान् देवानुद्दिश्य सेनापतिः सौधर्मेन्द्राज्ञामश्रावयत् । ततश्च सदेव्यादिपरिच्छदाः सर्वे देवा: स्वस्ववाहनविमानादिभिः सौधर्मेन्द्रमुपाजग्मुः । स चेन्द्रः " अप्रतिमं विमानं क्रियतामित्याभियोगिकं पालकनामानमादिशत् । पालकच ततः पञ्चशतयोजनमुच्चं लक्षयोजनविस्तारमिच्छानुमानगमनं रत्नस्तम्भ-वेदीगवाक्ष-ध्वजादिभिरलङ्कृतं विमानं निरमासीत् । ततश्च कोटिसङ्ख्यैः सामानिकादिभिर्देवैः समन्वितेन सपरिच्छदेन सौधर्मेन्द्रेणाऽधिष्ठितं तद्विमानमन्यदेवविमानानि चेन्द्रेच्छानुसारेण सौधर्मतः प्रतस्थिरे ।
वेगेन च तानि विमानान्यसङ्ख्यातद्वीप - समुद्रानुल्लङ्घ्य नन्दीश्वरद्वीपमधिजग्मुः । तत्र दक्षिणपूर्वस्थे रतिकराचले तद्विमानमिन्द्रः सञ्चिक्षेपः । एवं तत्र तत्र क्रमाद् विमानं सङ्क्षिपन् द्वीपसागरान् समुल्लङ्गं समुल्लङ्गं चेन्द्रस्तीर्थकृज्जन्मगृहं प्राप । तेन विमानेन सूतिकागृहं प्रदक्षिणयन्नुत्तरपूर्वदिशि विमानमस्थापयच्च । ततो विमानादुत्तीर्य प्रसन्नमनास्तीर्थकृत्समीपं गत्वा प्रणम्य प्रदक्षिणां कृत्वा च पुनर्भक्त्यतिशयेन समातरं तं प्रणम्य मूर्ध्नि विहिताञ्जलिर्मरुदेवामवोचत - "देवि ! त्वमेव पुत्रिणीषु धन्या पुण्यवती चाऽसि, यत् त्वया प्रथमतीर्थनाथः सुषुवे । अहं सौधर्मेन्द्रस्तव पुत्रस्याऽर्हतो जन्ममहिमोत्सवं कर्त्तुमिहाऽऽगमं त्वया न भेतव्यम्" ।
ततो मरुदेव्यामवस्वापनिकाख्यनिद्रां विधाय नाभिसूनोः प्रतिरूपं निर्माय मरुदेवापार्श्वे च तन्निवेश्य स्वात्मानं पञ्चधा विकृतवान्। तेषु पञ्चस्विन्द्रेष्वेकः पुरोभूय प्रणम्य च 'स्वामिन्ननुजानीही 'त्युक्त्वा गोशीर्षचन्दनात्ताभ्यां पाणिभ्यां भगवन्तमाददे । अन्यो भगवतो मूर्धन्यातपत्रं दधौ । अन्यौ च द्वाविन्द्रौ पार्श्वयोश्चारुचामरे दधतुः । अन्यश्चेन्द्रो