________________
....१५
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्लेशं न कुर्यात् । यतो धर्माधर्मफलमेव नाऽस्ति" ।
ततः स्वयम्बुद्धः पुनरब्रवीत्-स्वपरशत्रुभिर्नास्तिकैरन्धैरन्धा इवाऽऽकृष्य जना अध: पात्यन्ते, धिक् । सुख-दुःखज्ञोऽयमात्मा स्वसंवेदनवेद्योऽस्त्येव । नाऽत्र कोऽपि बाधकः । यद्यात्मा नाऽस्ति, तर्हि 'सुखितोऽहं दुःखितोऽह'मिति प्रतीति: कस्याऽपि कथं स्यात् ? यथा स्वशरीरे स्वसंवेदनसिद्ध आत्माऽस्ति, तथा परशरीरेऽपि बुद्धिपूर्विकायाः क्रियाया उपलम्भात् स निश्चीयते । नहि कोऽपि विना बुद्धि क्रियां करोति ? अन्यथा घटादिरपि स्वयं कार्यं कुर्यात् । बुद्धिश्चाऽऽत्मगुण इति सर्वत्र बुद्धिमत्स्वात्मा सिद्ध एव, आत्मनि सिद्धे परलोकोऽपि सिद्ध एव ।।
य एव च म्रियते, स एव पुनरुत्पद्यते । एकमेव चैतन्यं पूर्वजन्मतः परजन्मनि याति । यदि हि पूर्वजन्मचैतन्यस्य परजन्मन्यनुवृत्तिर्न स्यात्, कथं तहि जातमात्रोऽशिक्षितश्च बालः स्तनं धयेत् ? तस्मादात्मा नित्य इति सर्वमुपपन्नम् । अचेतनेभ्यो भूतेभ्यश्च न चेतनोत्पादसम्भवः । जगति कारणानुरूपमेव कार्यं दृश्यते । यदि कारणमचेतनं तर्हि कार्यमप्यचेतनमेव स्यात् । किं च भूतेभ्यः प्रत्येक चेतनः स्याद् युगपद् वा?
यद्याद्यः पक्षस्तदा पञ्चभ्यो भूतेभ्यः पञ्च चेतनाः कथं न भवन्ति ? यदि द्वितीयः पक्षस्तदा 'रूप-गन्ध-रस-स्पर्शगुणा पृथिवी, रूप-स्पर्श-रसगुणा आपः, रूप-स्पर्शगुणं तेजः, स्पर्शगुणो वायु'रित्येवमाबालप्रसिद्धभिन्नस्वभावैरेभिर्भूतैरेकस्वभावश्चेतनः कथमुत्पद्येत ? कारणगुणा हि कार्यगुणारम्भका इति कार्यकारणयोभिन्नस्वभावता न युज्यते इति कारणेऽचेतने रूपादिगुणवति च सति कार्य चेतनमरूपि चेति विरुद्धम् ।
प्रथमं पर्व - प्रथमः सर्गः
अथ तोयादिभ्यो भिन्नस्वभावानां मौक्तिकानामुत्पत्तिर्दश्यते, तथा भूतेभ्योऽचेतनेभ्यश्चेतन: स्यादिति चेत्, तदपि न । तोये मौक्तिकादिषु चैकं पौद्गलिकमेव रूपं, ततो न भिन्नस्वभावता तयोः। किं चाऽचेतनेभ्यः पिष्टोदक-गुडादिभ्योऽचेतनैव मदशक्तिर्जायते इति स दृष्टान्तश्चेतने नोपयुज्यते । देहात्मनोरभेद इत्यपि न युक्तम् । कथमन्यथा मृतावस्थायां देहे स्थितेऽपि चेतनस्याऽनुपलम्भो भवेत् ? यदप्युक्तम्-"एक: पाषाणः पूज्यते, अपरस्मिन् मूत्रादि क्रियते" इत्यादि, तदपि न युज्यते । यतो नाऽचेतने पाषाणे सुखदुःखादियुज्यते इति कुतस्तेषु धर्माधर्मचिन्ता? तस्माद् देहाद् भिन्न आत्माऽस्ति, यः परलोकं गच्छति । तथा धर्माधर्महेतुकः परलोकोऽप्यस्त्येव । अग्नितापाद् नवनीतमिव विषयासङ्गाद् मनुष्याणां विवेको विलीयते । तस्मात् पापमित्राणि धर्मविरोधिनो नरकाकर्षणपाशरूपान् विषयांश्च दूरतस्त्यज । एक: प्रेष्योऽपरः स्वामी, एको याचकोऽपरो दाता, एको वाहनमपरोऽधिरोहक इत्यादि धर्माधर्मफलं स्पष्टमेव दृश्यते । तस्माद् दुःखकारणमधर्मोऽसद्वाक्यमिव हेयः, कल्याणैककारणं धर्मश्च सद्वाक्यमिवोपादेयः ।
ततः शतमतिरुक्तवान्-"क्षणिकात् पदार्थज्ञानादपर आत्मा नाऽस्ति । ननु तहि कथमहमित्येवं स्थिरा बुद्धिर्भवति ? घटादयश्च पदार्थाः स्थिरा दृश्यन्ते ? इति चेत्, वस्तुषु स्थिरत्वबुद्धौ पूर्वापरक्षणेष्वभेदबुद्धिरूपा वासना कारणम् । पूर्वेऽपरे च क्षणा भिन्ना एव । तस्मात् तेष्वैक्यबुद्धिर्न वास्तविकी । तस्मात् क्षणिकं ज्ञानमेवाऽऽत्मा" ।
ततः स्वयम्बुद्धः प्रत्यवादीत्-"वस्तु क्षणिकं नाऽस्ति, कथमन्यथा गोभुक्तं तृणजलादि दुग्धरूपेण परिणमेत् ? किं च वस्तुमात्रं क्षणिकं स्याच्चेत्, क्षणसन्तानोऽपि क्षणिक: स्यादिति कुतः