________________
१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एवं विमृश्य सुधीः स्वयम्बुद्धो रचिताञ्जली राजानं विज्ञपयामास-"आसंसारं सरितांपतिः सरिज्जलैर्वडवानल: सागरजलैरन्तको जन्तुभिर्हताशन इन्धनैरात्मा विषयसुखैः कदाचन तृप्यति किम् ? कूलच्छाया दुर्जना विषं विषया दन्दशकाश्च सेव्यमाना विपत्तय एव भवन्ति । तत्कालसुखोऽन्तविरस: कामः सेव्यमानः कण्डूय्यमाना पामेव निकामं प्रवर्धते । कामिजनो मत्त इव सदाचारपथभ्रष्टः सन् भवगर्ते पतति । मूषको गृहमिव कामोऽर्थं धर्मं मोक्षं च खनति। स्त्रियश्च विषलता इव दर्शन-स्पर्शनोपभोगैर्व्यामोहकारिका एव। किं च कामव्याधपाशरूपा: कामिन्यो हरिणानामिव नृणामनर्थाय जायन्ते । ये च नर्मसुहृदस्तेऽशनपानकमित्राण्येव, यतस्ते स्वामिनः परलोकहितं न चिन्तयन्ति । अमी विटाः स्त्रीकथाभिर्गीत-नृत्तैर्नर्मोक्त्या च स्वस्वामिनं मोहयन्तीत्याश्चर्यम्। नीचा: स्वार्थकतत्परा एव भवन्ति । कुसंसर्गात् कुलीनानामभ्युदयः कुतो भवेत् ? बदरीतरुसन्निधौ कदली कियद् वर्धेत ? तस्माद् हे कुलस्वामिन् ! प्रसीद, स्वयं विज्ञोऽसि । मोहं मा गाः । व्यसनासक्ति विहाय मनो धर्मे निधीयताम् । धर्मरहितो जनो निर्गन्धपुष्पतुल्य एव, चक्रवर्त्यप्यधर्मः सन् तत्र पुनर्जन्म लभते, यत्र सम्प्राप्तं कदन्नमपि साम्राज्यं मन्यते । महाकुलप्रसूतोऽपि धर्मोपार्जनविमुखो भवान्तरे श्वेव परोच्छिष्टान्नभोजनो भवति । धर्मवर्जिता: प्राणिनो भवे भवे बिडालादियोनिषु जायन्ते ।
किं च धर्मरहिता जना नरकेषु जायन्ते, तत्र च परमाधार्मिकसुरैर्वैरादिव कदर्थ्यन्ते । धर्माच्च बान्धवादिव शर्माणि विन्दति । धर्मेण नावेव विपदापगास्तरति । धर्मार्जनतत्परा नरा जनेषु पूज्यन्ते, लताभिः पादपा इव सम्पद्भिराश्रीयन्ते च । जलेनाऽग्निरिव धर्मेण बाधाकारका आधि-व्याध्यादय आशु शाम्यन्ति । जन्मान्तरे सर्वकल्याणदानाय धर्म एव प्रतिभूः । स्वामिन् ! किं बहुना, जन्तवो धर्मेण निश्रेण्या सौधाग्रमिव लोकाग्रं यान्ति । किं च त्वं विद्याधरेन्द्रत्वं
प्रथमं पर्व - प्रथम: सर्ग: धर्मेणैव प्राप्तोऽसि । एतदपेक्षयाऽपि श्रेष्ठफललाभाय धर्ममेव समाश्रय"।
ततोऽमावास्यारात्रिरिव मिथ्यात्वतिमिराकरो विषोपममतिः सम्भिन्नमतिरब्रवीत्-"स्वयम्बुद्ध ! साधु साधु, स्वामिनो हितचिन्तकोऽसि, यत 'उद्गारैराहार इव गिरा भावोऽनुमीयते' । सरलमतेः सदा प्रसन्नस्य स्वामिनः सुखहेतवे त्वादशाः कलामात्या एवेत्थं वदन्ति, नाऽपरे । निसर्गकठिनः क उपाध्यायस्त्वामध्यजीगपत् ? यत् स्वामिनोऽकाण्डवज्रपाततुल्यमिदमवोचः । स्वामी स्वयं भोगार्थिभिः सेवकैः सेव्यते, तैः सेवकैः स्वामी 'भोगान् मा भुक्त्था ' इति कथमुच्यताम् ? किं च यदैहिकान् भोगान् त्यक्त्वा परलोकाय यत्नस्तद् हस्तस्थं लेह्यं त्यक्त्वा कूर्परालेहनमेव ।
परलोकफ्लो धर्म इति कथनमप्ययुक्तम् । यतो नाऽस्ति परलोकः, नाऽपि परलोकवासिनः केऽपि सन्ति । यतो गुडपिष्टोदकादिभ्यो मदशक्तिरिव पृथिव्यप्-तेजो-वायुभ्यश्चेतना स्वयं समुद्भवति । अतो देहादन्यो न कोऽपि देही वर्त्तते, यः शरीरं त्यक्त्वा परलोकं गमिष्यति । ततो वैषयिकं सुखं निःशङ्कमुपभोक्तव्यम् । स्वात्मा न वञ्चनीयः । यतः स्वार्थभ्रंशो मूर्खतैव । सुखेषु विघ्नकारक एव धर्माधर्मविचारः। यतः खरविषाणवद् धर्मोऽधर्मो वाऽसन्नेव । पाषाणः कं धर्ममधर्मं वाऽकरोत्, येनैको माल्यादिभिः पूज्यते, अपरस्योपरि च जनैरासित्वा मूत्र्यते, पुरीषादि च क्रियते !।
किं च यदि जन्तवः कर्मवशत उत्पद्यन्ते विपद्यन्ते च, तर्हि बुबुदाः केन कर्मणोत्पद्यन्ते विपद्यन्ते च? तस्माद यावच्चेतनाऽस्ति, तावद् यथेष्टमाचरणीयम् । यतो मृतस्य पुनर्भवो नाऽस्ति । य एव म्रियते स एवोत्पद्यते' इत्यपि कथनमात्रम् । यतो न तत्र किमपि प्रमाणमस्ति । तत: स्वामी यथेष्टं विषयोपभोगं करोतु । यो निषेधति स शत्रुरेव । यावज्जीवेत् तावद् वैषयिकैः सुखैः सुखं जीवेत् । धर्माय