________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्षणिकक्षणसन्तानरूपे घटादौ घटादिबुद्धिर्भवेत् ? ज्ञानोत्पादात् पूर्वमेव वस्तुनाशात् । क्षणसन्तानो नित्य इति चेत् तर्हि 'सर्व क्षणिक मिति प्रतिज्ञा नष्टा । किं च सर्वभावानां क्षणिकत्वे न्यासीकृतस्य धनस्य तत्कालमेव नाशात् तस्य प्रतियाचनमनुपपन्नं स्यात् । क्षणिकज्ञानस्यैवाऽऽत्मत्वे चाऽनुभवितुस्तत्क्षण एव नाशात् पूर्वानुभूतार्थस्मरणमनुपपन्नं स्यात् । न ह्यन्योऽनुभवत्यन्यश्च स्मरति । तथा सति चैत्रेणाऽनुभूतस्य मैत्रेण स्मरणापत्तिः स्यात् । “स एवाऽयं देवदत्त" इति प्रत्यभिज्ञा चाऽनुपपन्ना स्यात् । देवदत्तस्य क्षणिकत्वेन पूर्वदृष्टस्य तस्येदानीमभावात् ‘स एवाऽय'मिति बुद्धेरनुपपत्तेः । अपि चोत्पन्नस्य पुत्रस्य क्षणिकत्वेन जन्मानन्तरमेव नाशादिदानीन्तनपुत्रस्य च पितृभ्यामजनना"दस्याऽयं पुत्रः, पिता वे"त्यादिव्यवहारोच्छेदः स्यात् । किं च य इहाऽशुभं कर्म कुर्यात् तस्य क्षणिकत्वेन तत्क्षण एव नाशे परलोकेऽन्य एव भवेत् । एवं च कृतनाशोऽकृतागमश्च प्राप्तः । कृतस्य कर्मणः क्षणिकत्वेन नाशात् फलभोगकालेऽकृतस्य कस्यचिदन्यस्यैव कर्मण: फलभोगसम्भवात् । तस्मात् पदार्थानां क्षणिकत्वं नियुक्तिकमेव" ।
अथ महामतिरुवाच-"जगद् मायैव, तत्त्वत: किञ्चिदपि नाऽस्ति । यत् किञ्चिद् दृश्यमानं तत् सर्वं स्वप्न-मृगतृष्णादितुल्यम् । न हि स्वप्नो मृगतृष्णा वा तत्त्वतः किञ्चिदस्ति । तद्वज्जगद् मिथ्यैव, न तात्त्विकं किञ्चित् । एवमेव गुरु-शिष्यादिव्यवहारः स्वप्नव्यवहारवदतात्त्विक एव । यथा शृगाल उपस्थितं मांसं विहाय तीरे मीनाय धावितः, मीनश्च तोये प्राविशत्, मांसं च गृध्रोऽहार्षीदिति शृगाल उभाभ्यां भ्रष्टः, तथैहिकसुखं त्यक्त्वा परलोकसुखाय कृतप्रयासा नरा लोक-परलोकादीनामतात्त्विकत्वेनोभयभ्रष्टा आत्मानं वञ्चयन्त एव। नरकभीरवो जनाः पाखण्डिनां मिथ्योपदेशं श्रुत्वा मोहात् परलोक
प्रथमं पर्व - प्रथमः सर्गः सुखार्थं व्रतादिना देहं दण्डयन्तीति सखेदाश्चर्यम् । यथा लावकाख्यः पक्षी पृथिव्यां पतनशङ्कयैकेनैव पादेन नृत्यति, तथा जन्तुर्नरक पातशया तपस्यति । यथा न तस्य पक्षिण: क्वाऽपि पृथिवीपात इति तदाशङ्का मिथ्या, तथा जन्तोर्न कदापि नरकपात इति तदाशङ्कया व्रताद्याचरणं क्लेशमात्रफलम्" ।
तत्छ्रुत्वा स्वयम्बुद्धः पुनरब्रवीत्-"यदि जगत् स्वप्नवदतात्त्विकमेव, मायैवेदृशी, तर्हि स्वप्नस्थो हस्ती कथं न वहनादिकार्य करोति ? किं च सर्वपदार्थानामतात्त्विकत्वे कार्यकारणभावस्याऽप्यतात्त्विकतया पततो वज्रादेः कथं त्वं बिभेषि ? वज्रादीनां तव मतेऽतात्त्विकत्वात् ततो हानेरसम्भवात् । किं च जगतो मायारूपत्वे 'न त्वं, नाऽहं, न किमपि वाच्यं, न वा कोऽपि वाचक' इतीह सभायामिदानी कथमत्तर-प्रत्युत्तरौ सम्पद्यते इति ब्रूहि । तस्मात् सर्वव्यवहारविलोपापत्त्या न जगद् माया, किन्तु तात्त्विकमेव । ततो हे देव ! वितण्डापण्डितैरेभिर्विषयलोलुपैः शुभपरिणामपराङ्मुखैनित्यं वञ्चयसे । अतो विवेकमाश्रित्य विषयान् दूरतस्त्यज । इहाऽमुत्र च कल्याणाय धर्ममेवाऽऽश्रय" ।
ततः प्रसन्नो नृपोऽब्रवीत्-"महाबुद्धे ! स्वयंबुद्ध ! साधु, साधूक्तवानसि । युद्धेऽस्त्रमिव काले धर्मोऽवश्यमुपादेयः । वयं न धर्मविद्वेषिणः, किन्तु यौवनकालो न धर्मोपार्जनोपयुक्तः, अपि तु विषयोपभोगोपयुक्तः । तस्मात् त्वयाऽयं धर्मोपदेशोऽनवसरे कृतः । वीणायां वाद्यमानायां सत्यां वेदपाठो न शोभते । धर्मस्य परलोकः फलमिति सन्दिग्धमेव । तस्मादैहिकसुखत्यागोऽनवसरेऽनुचितः" ।
ततः स्वयम्बुद्धः कृताञ्जलिरुवाच-"धर्मफलं निश्चितमेव, तत्र शङ्कां मा कार्षीः । किं न स्मरसि ? बाल्ये नन्दनं वनं गतावावां कान्तरूपं सुरमपश्याव । स च प्रसन्नस्त्वामुवाच-"नृप ! अतिबल