________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
तथाहि अनेकसागर-द्वीपवलयैः परिवेष्टितो नदीभिर्वर्षैर्वर्षधरपर्वतैश्च भूषितो जम्बूद्वीपनामा द्वीपोऽस्ति । तस्य मध्ये नाभित् कनकरत्नमयो मेरुनामा पर्वतोऽस्ति । जिनप्रासादभूषितात् तस्मात् पश्चिमदिशि विदेहदेशे क्षितिप्रतिष्ठितं नाम महानगरमासीत् । तत्र महर्द्धिसम्पन्नो देवेन्द्रतुल्यो धर्म-कर्मपरायणः प्रसन्नचन्द्रनामा राजा - ऽभूत् । तथा तत्रैव यशस्वी सदाचारी सकलजनसेवनीयः परोपकारनियोजितानन्यसाधारणलक्ष्मीवानुदारो धीरो गम्भीरो गजाद्यनेकवाहनविराजतो गुणिनामग्रणीर्धननामा सार्थवाह आसीत् । महासरोवरजलेन पार्श्वस्थभूमिरिव सेवका अपि तद्धनेन धनवन्त आसन् ।
२
स चैकदा महाभाण्डं गृहीत्वा वसन्तपुरनगरं गन्तुमैच्छत् । ततः स स्वपुरे डिण्डिमवादनपूर्वकं घोषणां कारयामास - "धनः सार्थवाह वसन्तपुरं गमिष्यति, ये जिगमिषन्ति, ते तेन सह चलन्तु । स
चाऽभाण्डाय भाण्डमवाहनाय वाहनमसहायाय सहायमशम्बलाय
शम्बलं च दास्यति । तथा स बान्धवानिव सहयात्रिणो मार्गे दस्युभ्यः श्वापदाद्युपद्रवेभ्यश्च रक्षिष्यती 'ति । ततः स शुभे मुहूर्ते कुलस्त्रीकृतमङ्गलपूर्वकं रथमारुह्य नगराद् बहिः प्रस्थानमकरोत् । तत्र च प्रस्थानवाद्यशब्दैराहूता इव वसन्तपुरगामिनः सर्वे जनाः समागतवन्तः ।
अस्मिन्नवसरे धर्मघोषनामाऽऽचार्यो धर्मेण पृथिवीं पावयन् सार्थवाहसमीपमागतः । ततो धनः ससम्भ्रममुत्थाय तपसा सूर्यमिव दीप्यमानं तं कृताञ्जलिरवन्दत, समागमनकारणं चाऽपृच्छत् । "त्वया सह वसन्तपुरं गमिष्याम" इत्याचार्येण कथितो धनोऽप्युवाच - "धन्योऽहमद्य, यत् पूज्या आयाताः, मया सह यास्यन्ति च । तथा "अमीषामाचार्याणां कृते प्रतिदिनं युष्माभिरन्नपानादि सम्पादनीय"मिति पाचकानादिशत् । तत आचार्या अवोचन् - "सार्थनाथ !
प्रथमं पर्व प्रथमः सर्गः
जैनेन्द्रशासने यतीनामकृतमकारितमसङ्कल्पितं चाऽन्नादि कल्पते, तथा वापी - कूप - तडागादिगतमप्रासुकं वारि च निषिध्यते" । अस्मिन्नेवाऽवसरे केनाऽपि पक्वाम्रसम्भृतं स्थालं सार्थवाहस्योपहृतम् । ततः प्रसन्नो धन आचार्यानुवाच "अमूनि फलानि गृह्णन्तु मामनुगृह्णन्तु च" । तत आचार्यैरुक्तं- " श्राद्ध ! अशस्त्रोपहतं फलादि स्प्रष्टुमपि न युज्यतेऽस्माकं किं पुनः खादितुम्" । ततो विस्मितो धनोऽवोचत्"विलक्षणं दुष्करव्रतकारित्वं भवतां भवादृशैरेकदिनमपि प्रमादिभिर्भवितुं न शक्यते, युष्माकं यत् कल्प्यमन्नादि तद् दास्यामि, अतः प्रसद्याऽद्य चलत” । ततस्तान् मुनीन् नत्वा व्यसृजत् । अश्वैरुष्ट्रैः शकटैर्महोक्षैश्च तरङ्गै सागर इवाऽचालीच्च सः । मूलगुणोत्तरगुणैमूर्त्ततामाश्रितैरिव साधुभिरावृता आचार्या अपि प्रस्थितवन्तः ।
अथ सार्थस्याऽग्रेधनः, पृष्ठे तत्सखा माणिभद्रः, पार्श्वयोश्चाऽश्ववाराः संजग्मुः । उष्ट्रैर्महिषैर्महोक्षैरश्वतरैः खरैश्च घनवातैः क्षितिरिव तस्य दुर्वहं भाण्डमूहे । महाकाया महिषाश्च जलं वहन्तो जनानां पिपासां निरासयामासुः । तदा पथि शस्त्रपाणिभिरारक्षकैः प्रतिदिशं रक्षितः सार्थो वज्रपञ्जरमध्यस्थ इव जगाम । निःस्वानामाढ्यानां च योगे क्षेमे च निर्विशेषं तत्परो धनो यूथेश: कलभानिव सर्वान् सहैवाऽनैषीत् । स एवं प्रतिदिनं प्रयाणमकरोत् ।
अथ सरसां सरितां च जलं शोषयन् पान्थानां भयप्रदो दु:सहो ग्रीष्मर्तुः समाजगाम । तत्र च भ्राष्ट्रमिन्धा इवाऽत्यन्तदुःसहा वाता ववुः । सूर्यश्चाऽग्निशिखोपममातपमाततान । अतस्तत्सार्थपथिकास्तरुच्छायामाश्रित्य तस्थुः । प्रपासु प्रविश्य च पयः पायं पायमलुठन् । महिषा बलीवर्दाश्च वारिता अपि नदीपङ्केषून्मार्गपादपच्छायासु च समीयुः । घर्माम्भ:क्लिन्नवाससश्च सार्थस्त्रियो मार्गनदीषु सस्नुः,