________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कमलनालांश्चोत्पाट्य गलनालेषु दधुः । पान्थाश्च व्यजनैधर्म शमयामासुः ।
ततः पान्थानां गतागतमवरुन्धन् वर्षर्तुः समाजगाम । तत्र च सार्थजना धारासम्पातं कुर्वन्तमलातचक्रमिव तडितं भ्रमयन्तं वारिदं सत्रासमीक्षाञ्चक्रिरे । सर्वत: प्रसरद्भिः पय:पूरैश्च नदीनां कूलानि विभिन्नानि । सलिलैश्च विषमाऽपि मही समा जाता । तदा सलिलैः कण्टकैः पद्देश्च मार्गस्य दुर्गमतया क्रोशोऽपि योजनशतमिव जातः । पान्थाश्चाऽऽजानुसंलग्नकर्दमाः शनैः शनैः प्रचेलुः । पङ्कविषमे पथि च शकटा अमज्जन् । अवरुह्य धृतरश्मिभिरौष्ट्रिकैराकृष्यमाणा: क्रमेलका भ्रश्यत्पादा: पदे पदे पेतुः । एवं मार्गानां दुर्गमत्वं प्रेक्ष्य धनस्तस्यां महाटव्यामेव प्रयाणं स्थगयित्वा तस्थौ । तत्र जना वर्षा अतिवाहयि तुमुटजान् निर्ममुः । यतो देशकालोचितां क्रियां कुर्वन्तो न सीदन्ति । आचार्या अपि मुनिसहिता माणिभद्रेण दशिते जन्तुरहितभूमावुट-जरूपोपाश्रयेऽवात्सुः । ___अथ सार्थलोकानामतिबहुत्वात् प्रावृषोऽतिदीर्घत्वाच्च तत्र सर्वेषां पाथेय-तृणादिकं समाप्तम् । ततः क्षुधार्ताः सार्थजना: कन्दमूलादि खादितुमितस्ततः प्रचेलुः । ततो माणिभद्रः प्रदोषे सार्थानां तद् दुःखं धनाय विज्ञपयामास । स च सार्थदुःखचिन्तया जडीभूत इव तस्थौ । दुःखाधिक्यात् क्षणमात्रेण निद्रामापच्च । रात्रेश्चाऽन्तिमे प्रहरे वाजिशालायाः प्राहरिकः कश्चिदेवमवोचत्-"अहो ! दिगन्तख्यातकीतिरस्माकं स्वामी विषमां दशां प्राप्तोऽपि प्रतिपन्नानस्मान् पालयति" । तदाकर्ण्य धनश्चिन्तयामास-केनचिदुपालब्धोऽस्मि, इह मामके सार्थे को नामाऽत्यन्तदुःखितोऽस्ति ? आ ज्ञातम्, "अकृताकारितप्रासुकभिक्षामात्रोपजीविनो मे सहागता धर्मघोषाचार्याः सन्ति । ये कन्दमूल-फलादीनि स्पृशन्त्यपि न । तेऽधुना दुःस्थिते सार्थे कथं
प्रथमं पर्व - प्रथमः सर्गः वर्त्तन्ते ? येषामद्य वाङ्मात्रेणाऽप्यौचिती न कृता, तेषां कथं न्वहं स्वमुखं दर्शयिष्यामि? तथाऽप्यद्याऽपि तेषां दर्शनं कृत्वा निजपापं क्षालयामि । निरीहाणां तेषां मया कि कार्य"मिति चिन्तयतो मुनिदर्शने सोत्सुकस्य तस्य चतुर्थो यामो व्यतीतः । ततः प्रभाते धृतशुचिवस्त्रभूषणो धनो मुख्यैर्जनै: सहित उपाश्रयमगात् ।।
अथ पिण्डीभूतं तप इव, तेजसां संस्थानमिव, मूर्तिमन्तमागममिव धर्मघोषसरि ध्यानाद्याचरतो मुनींश्चाऽद्राक्षीत् सः । ततः स सूरि मुनीश्चाऽपि यथाक्रममवन्दत । तेऽपि तस्मै धर्मलाभं ददुः । ततो धनः सूरिचरणपार्श्वे समुपविश्याऽवोचत्-"भगवन् ! प्रयाणकाले युष्मानामन्त्रयता मया शरगजितवद् मुधैव सम्भ्रमो दर्शितः । यतस्तद्दिनादारभ्य यूयं न वन्दिताः, न च दृष्टाः, न वा कदाचिदप्यन्न-पान-वस्त्राद्यैः सत्कृताः । प्रतिज्ञातपरित्यागिना मया मूढेन कि कृतम् ? यद् यूयमेवमवमानिताः । ततो मम प्रमादाचरणं क्षमध्वं, यतो महान्तः सर्वंसहेव सर्वंसहा भवन्ती" ति ।
सूरयोऽप्यूचुः-"वम॑नि दुःश्वापदेभ्यो दस्युभ्यश्च त्रायमाणेन त्वया किं किं न सत्कृतम् ? तव साथिका एवोचितमन्न-पानादि ददति । ततो न मम काचिदसुविधा । अतो मा विषीद" । ततो धनः पुनरुवाच-"सदोषस्याऽपि गुणानेव पश्यन्ति सन्तः । स्वप्रमादेन लज्जितोऽस्मि, यूयं प्रसीदत, साधून् प्रेषयत । यथेष्टमाहारं प्रय. च्छामि" । ततो धनस्तान् नत्वा निजावासं ययौ ।
अथ धनस्याऽनुपदमेव साधुद्वयमागमत् । दैवात् तदर्हमन्नपानादि किञ्चिदपि नाऽऽसीत् । ततो धनः स्वयमितस्ततोऽन्वेषयन् घृतमद्राक्षीत् । तदेव च 'धन्योऽह'मिति चिन्तयन् पुलकिततनुः स्वयं साधवे ददौ दानावसानेऽवन्दत च । साधुद्वयमपि च धर्मलाभं दत्त्वोपाश्रयं जगाम । धनस्तदानीं दानप्रभावतो मोक्षतरोर्बीजं सुदुर्लभ