SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुबरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः प्रथमतीर्थकर-भरतचक्रवर्तिचरितात्मकं प्रथमं पर्व प्रथमः सर्गः निरीहान् जनहितेहान् निःसङ्गान् मुक्तिसङ्गिनो जिनपान् । ऋषभादिवीरचरमान् त्रिभुवनभव्यभावितान् नौमि ॥ १ ॥ श्रीयशोभद्रसुगुरोः प्रसादाकलितसुमतिसमुत्साहः । सूर्योदयाभिधेन प्रार्थितो विनीतविनेयेन ॥ २ ॥ श्रीहेमचन्द्ररचितत्रिषष्टिशलाकापुरुषचरितस्य । गद्यैः सारोद्धारं शुभकरो गणिवरः कुरुते ॥ ३ ॥ अथ ऋषभादिमहावीरचरमाणां तीर्थकृतां तीर्थेषु द्वादश चक्रिणो नवाऽर्धचक्रिणो नव रामा नव प्रत्यर्धचक्रिणश्चाऽवसर्पिण्यां भरतक्षेत्रसम्भवाः त्रिषष्टिशलाकापुरुषाः । तेषु केचन शिवश्रियं प्राप्ताः, केचन प्राप्स्यन्ति च । महात्मनां हि कीर्तनं शिवाय भवतीति तेषां शलाकापुरुषाणां चरितं ब्रूमः । तत्राऽऽदौ यस्मिन् भवे बोधिबीज प्राप्तिस्तस्मादारभ्य श्रीवृषभनाथचरित्रं वर्ण्यते ।
SR No.009891
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages89
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy