________________
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-१ ऋणर्वृषभत्र्वृषौ वा ॥ १.१४१ ॥ [ उज्जू] । ऋजु । उदृत्वादौ - ऋकारस्य उ: । तैलादौ - द्वित्वम् ॥ १.१४१ ॥
दृशः क्विप्-टक्-सकः ॥ १.१४२ ॥ [ केरिसो, एरिसो] । कीदृश, ईदृश । एत् पीयूषापीडेति एत्वम् ॥ [ तुम्हारिसो] । युष्मादृश । युष्मद्यर्थपरे तः ॥ १.१४२ ॥
आदृते ढिः ॥ १.१४३ ॥
__ अरिदृप्ते ॥ १.१४४ ॥ [दरिओ] । दृप्त । कगटडेति पलोपे दृप्ते - द्वित्वनिषेधः ॥ १.१४४ ॥
तृत इलिः क्लृप्त-क्लृन्ने ॥ १.१४५ ॥ [किलित्तकुसुमोवयारेसु] । क्लृप्तकुसुमोपचारे । सुप् । भिस्भ्यस्सुपि - एत्वम् ॥ क्लिदिधातुं केचित् लकारस्वरोपान्त्यं पठन्ति, तन्मते क्लृन्न इति सिद्धम् ॥ १.१४५ ॥
एत इद् वा वेदना-चपेटा-देवर-केसरे ॥ १.१४६ ॥ [महमहिअ] । सं गतौ प्रपूर्वः । महमहो गन्धे । क्त । व्यञ्जनाददन्ते । क्ते - इकारः ॥ १.१४६ ॥
ऊः स्तेने वा ॥ १.१४७ ॥ [थूणो] । स्तेन । स्तस्य थोऽसमस्तस्तम्बे इति स्तस्य थः ॥ १.१४७ ॥
ऐत एत् ॥ १.१४८ ॥ [ वेज्जो] । वैद्य । द्यय्यर्यां जः । तैलादौ - द्वित्वम् । [केढवो] । कैटभ । सटाशकटकैटभे ढः - टस्य ढः । कैटभे भो वः - भस्य वः ॥१.१४८॥
इत् सैन्धव-शनैश्चरे ॥ १.१४९ ॥ [ सणिच्छरो] । शनैश्चर । हूस्वात् थ्यश्चत्सप्सामनिश्चले - छः ॥ १.१४९ ॥ १. दृशः० । सदृग् वर्णो यस्य सदृग्वर्णः । सदृग्बन्दिन् मङ्गलपाठकः । यद्वा सदृशश्च ता वन्द्यश्च तदा ईदन्तः शब्द इति सदृक्ष्यः । कीदृश० - ख. । २. क्लृप्तः कुसुमोपचारो येन स - खटि. । ३. प्रसृतं प्रसारितं दशनकेशरं यत्र वदने वचने वा - खटि.।