________________
सूत्रम्-१२८-१४०]
प्राकृतप्रबोधः [ पहुडि, पाहुडं] । प्रभृति, प्राभृत । प्रत्यादौ डः ॥ [वृंदावणो] । वृन्दावन । वाऽक्ष्यर्थवचनाद्या इति पुंस्त्वम् ।। [ वुड्डो, वुड्डी ] । वृद्ध, वृद्धि । दग्धविदग्धवृद्धिवृद्धे ढः इति द्धस्य ढः ॥ [ उज्जू] । ऋजु । तैलादौ - द्वित्वम् ॥ [ पुहुवी] । पृथ्वी । तन्वीतुल्येषु - वात् प्राक् उः ॥ १.१३१ ।।
निवृत्त-वृन्दारके वा ॥ १.१३२ ॥
वृषभे वा वा ॥ १.१३३ ॥
गौणान्त्यस्य ॥ १.१३४ ॥ [ माउसिआ, पिउसिआ ] । मातृस्वस, पितृस्वसृ । मातृपितुः स्वसुः सिआच्छौ - सिआऽऽदेशः ॥ १.१३४ ॥
मातुरिद् वा ॥ १.१३५ ॥
उदूदोन्मृषि ॥ १.१३६ ॥ इदुतौ वृष्ट-वृष्टि-पृथक्-मृदङ्ग-नप्तृके ॥ १.१३७ ॥ [मिइंगो] । मृदङ्ग । इः स्वप्नादौ इति दकारस्य इकारः ॥ १.१३७ ॥
वा बृहस्पतौ ॥ १.१३८ ॥ [ बिहप्फई ] । बृहस्पति । ष्यस्पयोः फ इति स्पस्य फः ॥ १.१३८ ॥
इदेदोद् वृन्ते ॥ १.१३९ ॥ [विण्टं] । वृन्त । वृन्ते ण्टः ॥ १.१३९ ॥
रिः केवलस्य ॥ १.१४० ॥ [रिच्छो ] । ऋक्ष । ऋक्षे वा - छः ॥ १.१४० ॥ १. प्रथमादेशकरणं गौणस्येति निवृत्त्यर्थम् । यद्वा गौणस्येत्यन्त्यऋकारसम्बद्धात्तन्निवृत्तौ गौणस्येति निवृत्तम् - खटि. ।