________________
सूत्रम्-८७-९५]
प्राकृतप्रबोधः 'ईज्जिह्वा-सिंह-त्रिंशद्-विंशतौ त्या ॥ १.९२ ॥ [सीहो ] । सिंह । मांसादेर्वा ॥ [वीसा, तीसा] । विंशति, त्रिंशत् । विंशत्यादेखंगित्यनुस्वारलुक् । विद्युद्वर्जनादसङ्ख्या
शब्दस्य प्रायो विधिरिति स्त्रियामाद० इति नाऽऽत्वं, किन्तु आद् इत्याप् । लुगित्यलुक् ॥ १.९२ ॥
लुंकि निरः ॥ १.९३ ॥ [नीसरइ] । निर्-सरति । कगेति तलुक् । * अथवा - सुं गतौ । तिव् । त्यादीनामितीच् ।
ऋवर्णस्याऽर् । व्यञ्जनाददन्ते ॥ [निस्सहाइँ] । निर्-सह । निर्दुरोर्वा - लुग्निषेधः । जस् । जस्शस इं० ॥ १.९३ ॥
द्वि-न्योरुत् ॥ १.९४ ॥ [दुमत्तो] । द्विमात्र ॥ [ दुआई ] । द्विजाति ॥ [दुरेहो] । द्विरेफ । फो भहौ - हः ॥ [दुइओ] । द्वितीय । पानीयादिष्वित् - इ ॥ नि( णु )मज्जइ । षद्लूं । नेः सदो मज्जः । तिव् → इच् । व्यञ्जनाददन्ते । वाऽऽदौ -
णत्वम् । * निमज्जतीति सिद्धस्य वा ॥ [णुमन्नो] । निमग्न । वाऽऽदौ - णत्वम् । कगटडेति गलुक् । नो णः । अनादौ० -
द्वित्वम् ।। निवडइ । पत्लु । पो वः । सदपतोर्डः । तिव् → इच् । व्यञ्जनाददन्ते ॥ १.९४ ॥
प्रवासीक्षौ ॥ १.९५ ॥ [पावासुओ] । प्रवासिन् । अतः समृद्ध्यादौ वा - आत्वम् । स्वार्थे कश्च वा ॥ [उच्छू] । इक्षु । छोऽक्ष्यादौ ॥ १.९५ ॥ १. ईजिह्वा० - मु.क.ख. । २. उभयप्राप्ते गलोप: - ताटि. । ३. धातूपसर्गयोरभेदेनाऽनादित्वं, ततः पो वः - ताटि. ।