________________
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-१ मिरायाम् ॥ १.८७ ॥ पथि-पृथिवी-प्रतिश्रुन्-मूषिक-हरिद्रा-बिभीतकेष्वत् ॥ १.८८ ॥ [ पुहई, पुढवी ] । पृथिवी । उदृत्वादौ । खघथधभाम् । निशीथपृथिव्योर्वेति ढः ॥ [ पडंसुआ ] । प्रतिश्रुत् । प्रत्यादौ डः । वक्रादावन्त इत्यनुस्वारः । शषोः सः । सर्वत्रेति
__ रलुक् । स्त्रियामादविद्युतः ॥ [हलद्दी, हलद्दा ] । हरिद्रा । हरिद्रादौ लः । द्रे रो नवेति रलुक् । अनादौ० - द्वित्वम् ।
छायाहरिद्रयोरिति वा ङी ॥ [बहेडओ]। बिभीतक । खघथधभाम् । एत पीयूषापीडेति एत्वम् । प्रत्यादौ डः इति तस्य
डत्वम् ॥ [पंथं ] । पन्थ । स्वर्त पथुण् गतौ । पथ्यतेऽस्मिन्निति पन्थः । पुनाम्नि घः - घप्रत्ययः ।
अम् । अमोऽस्य । मोऽनुस्वारः ॥ किरेरहिर किलार्थे वा - किरप्रयोगः । देसित्ता । दिश् । क्त्वा । व्यञ्जनाददन्ते । एच्च क्त्वातुम्तव्येति इ: । युवर्णस्य गुणः । सर्वत्रेति वलुक् । अनादौ० - द्वित्वम् ॥ १.८८ ॥
शिथिलेगुदे वा ॥ १.८९ ॥ [सढिलं, पसढिलं] । शिथिल, प्रशिथिल । मेथिशिथिरशिथिलेति थस्य ढः ॥ १.८९ ॥
तित्तिरौ रः ॥ १.९० ॥
इतौ तो वाक्यादौ ॥ १.९१ ॥ [जंपिआवसाणे ] । कथित-अवसान । कथण् । कथेर्वज्जरपज्जरोप्पालेति जंप । क्त ।
व्यञ्जनाददन्ते । क्ते - इ॥ [पुरिसो त्ति] । पुरुष इति । पुरुषे रोः - इः । शषोः सः । सि → डो । इतेः स्वरात्
तश्च द्विः - इलुक् द्वित्वं च ॥ १.९१ ॥
१. मीयते- नयति स्थविरेति साधुः मिरा- सीमा - खटि.। मीयते- परिच्छिद्यते वस्तु अनयेति स्थविरपिठिरेति (उ. ४१७) मिरा निपातः मर्यादावाचकः - कटि.। मीयते स्थविरेति साधुः - ताटि. । २. स्वत पथुण गतौ । उदितः स्व० । पथ्यतेऽनेनेति पन्थः । चुरादि० स्वरविधिगमग्रहामल् (?) - लप्र० - खटि. ।