________________
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-१ युधिष्ठिरे वा ॥ १.९६ ॥ [जहुट्ठिलो ] । युधिष्ठिर । आदेर्यो जः । उतो मुकुलादिष्वदित्यत् । हरिद्रादौ लः ॥ १.९६ ।।
ओच्च द्विधाकृगः ॥ १.९७ ॥ किज्जइ । कृग् । ते । त्यादीनामितीच् । क्यः शिति । ईयइज्जौ क्यस्य इति क्यस्य इज्ज ।
लुक् इति ऋलुक् ॥ [ दोहाइअं] । द्विधाकृत । इत् कृपादौ । [ दुहा वि] । द्विधा अपि । पदादपेर्वा इति अलुक् । पो वः ॥ [सो] । तद् । अन्त्यव्यं० । सि । तदश्च तः सोऽक्लीबे । वैतत्तदः इति सेझैः ॥ १.९७ ॥
वा निर्झरे ना ॥ १.९८ ॥
हरीतक्यामीतोऽत् ॥ १.९९ ॥ [ हरडई] । हरीतकी । प्रत्यादौ डः ॥ १.९९ ॥
___ आत् कश्मीरे ॥ १.१०० ॥ [ कम्हारा] । कश्मीर । पक्ष्मश्मष्मेति म्ह ॥ १.१०० ॥
पानीयादिष्वित् ॥ १.१०१ ॥ जिअइ, जिअउ । जीवति, जीवतु इति सिद्धप्रकृतेः ।। [विलिअं] । व्रीडित । डो लः ॥ [ दुइअं] । द्वितीय । द्विन्योरुत् ॥ [पलिविअं] । प्रदीपित । प्रदीपिदोहदे लः इति दस्य लः ॥ [ओसिअंतं] । षद्लं वि० अव-पू० । शतृ । शत्रानशः - न्त । व्यञ्जनाददन्ते ।
अवापोते - अवस्य ओत्वम् ॥ [वम्मिओ ] । वल्मीकं । सर्वत्रेति ललुक् ॥ १.१०१ ।।
१. मीदादेशः (?) - खटि. ।