________________
( ५४ )
श्रीमन्त्रराज गुणकल्प महोदधि ॥
५४ - अगाः पर्वतास्तेषामरिरिन्द्रस्तस्य । हो निवासः स्वर्गस्तस्यान्तः स्त्ररूपम्, अन्तः स्वरूपे निकटे इति वचनात् तमणति वदति यस्तं प्रज्ञाप नादि सिद्धान्तवेदिनं नमः प्रणतोऽस्मीत्यर्थः, वर्णो श्रुतिरिति नयकार: बाहुलकात् श्रगारिरित्यत्र ॥
५५-णं ज्ञं पण्डितम्पुरुषंत्वमत जानीहि, अतसातत्यगमने, गत्यर्था ज्ञानार्थाः किम्भूतं नमोईं प्रणाम योग्यम् ॥
,
५६ - अरिहंताणम् - अर्हन्तीर्थकरस्तस्य ऋणं कर्म (१) तीर्थकर नामकर्मेत्य र्थः किम्भूतं नमो (२) नो ज्ञानं मः शिवं तयोः कः प्राप्तिर्यस्माद्यत् कर्मण्युदिते परमज्ञानं मोक्षश्च प्राध्यतएवेत्यर्थः ॥
५७ - नमोत्तरी - नमा नमन्ती ऊत् ऊर्ध्वं गच्छन्ती एव विधा नरी नौः, किम्भूता हान्ता-हं जलं तस्यान्तः प्रान्तो यस्या एवंविधा न स्यात्, जलप्रान्त न गम्यते इत्यर्थः ॥
५८-ना पुरुषस्तस्य मो मस्तकः, किम्भूतः हतानः हः शूलिनि करे नीरे इति वचनात् छ ईश्वरस्तस्य ता शोभा तां शोभामानयति वर्धयति, रि सम्बोधने ॥
५- प्रजं विष्णुं नम प्रहरीभव, किम्भूतं हताऽनं हतमनः शकटं दैत्यो येन तम्, इजेगः पाद पूरणे इति सूत्रात् इकारयुक्तो रेफः पादपूरणे ॥
६०-अजो रघुतनयः, अरि हन्ता सर्ववैरि विनाशी अभूत्, राम लङ्कारे मान इति निषेधद्वयं प्रकृतार्थम् ॥
६१-नमो अरहंताणं ॥ श्रयमपि पाठोऽस्ति ताना एकोनपञ्चाशत्, तामङ्गी ततानं रह जानीहि रहुणगतौ, गत्यर्थाश्चज्ञानार्थाः, तानं किम्भूतं न मोदं नृणाम्पुरुषाणां मोदो यस्मात् ॥
६२ - अनेन पदेनानुयोग चतुष्टयं । ३) व्याख्यायते अरहंताणम् अर्हदाज्ञां न मोचय, मोचा शाल्मली मोचां करोति मोचयति, मध्यमपुरुषैकवचने मोचयेति सिद्धम्, शाल्मलितुल्यामसारां जिनाज्ञां मा कुरु, तत्स्वरूपांत जानीहि इति चरणकरणानुयोगः ॥
१- " ऋणदेये जलेदुर्गे इति वचनाद्वणशब्दस्य कर्मवाचकत्वे संशीतिः ॥ २- वक्ष्यमाण विग्रहेण " नमो इति पदस्य कर्मविशेषणत्वे संशीति रेव, क्लीवत्वे हुख ेन भाव्यम् ॥ ३- द्रव्यानुयोगाद्यनुयोगचतुष्टयम् ॥
ލ
Aho! Shrutgyanam