________________
- द्वितीय परिच्छेद ॥
(५३) तस्यारिनिषेधकः, प्रतिवादीति यावत् तस्य हन्ता निवारका, परमेश्वर यो न मन्यते तं वारयति, प्रमाणवेत्ता पुरुषः सर्वज्ञं स्थापयतीत्यर्थः, न द्वयं प्रकृत्यर्थे । ___४३-अजः सर्वज्ञः, तस्य अर्हः पूजा ताम् अणति वदत्युपदिशति यस्त. म्पुरुष (१) नमोऽस्तु, पूजा स्थापकः पूजाहः स्यादित्यर्थः ।।
४४–अन्तः स्वरूपे निकटे प्रान्ते निश्चय नाशयोः । अवयवेऽप्यथाऽर्हन स्यात् पूज्ये तीर्थकरेऽपि चेति, म; शिवोऽस्ति, किम्भतः अन्तिाण:, अहं सर्वेषां योग्यम् अन्तः स्वरूपं तस्याण उपदेष्टा, अण शब्दे, मश्च चन्द्र विधौ शिवे, इत्येकाक्षर निघण्टुः, ईश्वरः सर्वपदार्थयथास्थितस्वरूपवादी न स्यात्, तदुक्तत्तत्त्वव्यभिचारात् ॥
४५-अजः छागस्तेन, ऋक् गतौ इयर्ति अजारी, छागवाहनो वहिः, शीलार्थ इन्, तंहिट् गतिबद्धयोः, हाययति वर्धयतीति प्रजारिहः, . वहिवर्धकोऽग्नि होत्री यस्तम्पुरुषं नमोऽस्तु, इत्युपहासः, तं किम्भूतम्-ताणं तां शोभा मणति ताणः, वयमग्निहोत्रिण इत्यभिमानी ॥
४६- मोचा शाल्मलिकदल्योर्मोचः शिग्रौ इत्यनेकार्थः, मोचा शाल्मली, तांत्वन अत, अत सातत्यगमने, मागच्छति, यतः अलिहम् अलीनां भमराणां हन् गमनं णं निफलं वर्तते, हनंक, (२) हिंसागत्योः, बिचिक्लपम्, भ्रमराणां भ्रमणं निष्फलं सौरभरहितत्त्वात्, ततस्त्वं मागच्छेति मित्ररयोक्तिः ॥ .
४७-नमो० अरिभिर्हतानाम्-अष्टविधकमपीडितेभ्यो नमः, उपहास नमस्कारः ॥
४८-अरिहम् अर्हन जिनस्तस्य त्राणं शरणं नमोचं ३) नमोच्यम् इति ॥ ४-अर्हन् तीर्थकरस्तस्य त्राणं शरणं न मोच्यम् ।। ५०-अरिमष्टविधं कर्म हतवन्तस्ते अरिहाः सिद्धास्तेषां शरणं न मोच्यमिति। ५१-मोदारिः शोकस्तेन हतानांपीड़ितानां न मः शिवं न स्यात् ॥ ५२-अरि हतानां बाहयवरिपोडितानां न मोदः हर्षों न स्यात् ॥ ५३-अरि इत्यव्ययं सम्बोधने, हतेभ्यो निन्द्यभ्यो नम इत्यपहास्यम् ॥ १-"प्रति ” इति विवक्षया द्वितीया ज्ञेया ॥ २-अन्यत्र " हन् ” इतिधातः॥ ३-मोचमिति सन्दिग्धम्पदम् ॥
Aho ! Shrutgyanam