________________
( ५२ )
श्रीमन्त्र राजगुणकल्पमहोदधि ॥
नमं नमत् नीचैर्भवत् पुनः उत् उच्चैर्भवत्ः एवं विधमरिचक्र ताभ्यां (९) हन्ति गच्छति, शकटं हि चक्राभ्यां चलतीति ॥
३४ -- मः ईश्वरो वर्त्तते, किम्भूतः - अरहन्ता श्ररं शीघ्रम्, इः कामस्तस्य हन्ता, णम् अलङ्कारे (२) ॥
३५३ - - ता शोभा तत्प्रधानोऽणः शब्दः साधुशब्दो यः न प्रो जोऽर्हम्, प्रोजो बलं तस्य योग्यं न, बलेन यशो न स्यादित्यर्थः, मकारोऽलाक्ष शिकः, (३). अणमित्यत्र लिङ्गमतन्त्र (४) मिति क्लीवश्वे न दोषः ॥
३६—अरमत्यर्थम्, इमान्तः, हस्तिविनाशी सिंहस्तस्य प्रणः शब्द:, सिंहनाद इत्यर्थः, तं त्वम् जय (५) प्राप्नुहि इति सुभटस्योच्यते यतोमूवन्धनं न स्यात्, स्वराणां स्वराः इत्यकारः ॥
३७
-प्रजः बागे हरे विष्णौ रघजे वेधसि स्मरे इत्यनेकार्थवचनादज ईश्वरः, सोऽरिर्यस्य सः अजारिः कन्दर्पः, तस्य हन्तुभ्यो नीरागेभ्यो नमः ॥ ३८ – कस्यचिद्वनवतो धर्मपराङ मुख(६) स्योच्यते -लिहीं आस्वादने, लिहनं लिहः, बाहुलकाद् भावे कः, न विद्यते लिहो यस्य लिहमभक्ष्यम् स्वमज क्षिप, त्यजेत्यर्थः, अवतेर्वृद्धयर्थात् क्विपि ऊस्तस्योमन्त्रणं हेस्रो, (७) धन वृद्ध मा लक्ष्मीस्त्राणं शरणं न भवतीति विरतिरेव त्राणं स्यादित्यभक्ष्याद्यं त्यजेत्यर्थः ॥
३९१- प्रजः द्वागस्तं लिहन्ति भक्षयन्तीति प्रजलिहा, एवं विधास्ता स्तस्करास्तेषाम्भोचो मोक्षो न स्यात् कर्म मुक्तिर्न स्यादित्यर्थं', मेोचनं मोच इति णिगन्तादच् ॥
--
४० - मोचा कदली वर्त्तते किम्भूता लिहो भोज्यं तस्य ता शोभा यस्याः सा भोज्ये सारभूता, न नेति निषेधद्वयं प्रकृतार्थम् ॥
४१ – अर्हः पूजा, तस्या अन्तो विनाशो यस्यां सा अहन्ता, ईदृशी मा लक्ष्मीर्न भवतीति, लक्ष्मीः सर्वत्र पूजाम्प्राप्नोतीत्यर्थः, रामलङ्कारे ॥
४२ - मातीति मः क्वचिहुः प्रमाणवेदी पुरुषः, किम्भूतः प्रजः परमात्मा
१ - चक्रभ्याम् ॥ २- सन्दिग्धा व्याख्या ॥ ३- लक्षणेन सूत्रेणानिष्पन्नः ॥ ४अतन्त्रमप्रधानम् ॥ ५-अय धातोरात्मनेपदित्वेन “अय " इति सन्दिग्धं पदम् ॥ ६ - धर्मविमुखस्य ॥ ७- अवतेर्वृद्ध्यर्थात् किपि ऊः इति जाते सम्बुद्धौ "ओ" इति चिन्त्यम्पदम् संबुद्धौ ह्रस्वस्य गुण विधानात् ॥
Aho! Shrutgyanam