________________
प्रथम परिच्छेद |
२४ –नं ज्ञान मर्हतः प्राप्तान् (१) श्रुत केवलिनः उ प्र पश्य ॥
२५- नं ज्ञानं तस्य मा प्रामाण्यम् ऊः धारणम्, तस्य अरिहं (२) योयम, ज्ञानप्रामाण्यवादिनं जनं त्वम् ण वद, अण रणेति दण्डक धातुः, तातावत् प्रक्रमे, प्रन्तेऽनुस्वारः प्राकृतत्त्वात् ॥
२६ – अर्हः (३) प्राप्तोऽन्तो येः एवंविधा " अणत्ति” "अनन्तानुबन्धिनो यस्य तम्, पदेकदेशे पदसमुदायोपचारात् सम्यग् दृष्टिपुरुषं क्षायिकस*यक्त्ववन्तं नमः ।
२७ – त्राणं भोजनभाजन मण्डनयोग्यं वस्तु, तन्नम, अन्तर्भूतगि स्वात् मह्वीकुरु, मण्डयेति भोजनकारि वचः, तत् किम्भूतम् उतं सम्बद्ध लिहं भोजनं यस्मात् ॥
२८ – '' तारा” तृणसमूहो वर्त्तते, किम्भूतं नमं नमत् कुटीरप्रायं यत् श्रोको गृहं तस्या; तृणैराच्छाद्यते गेहमिति ॥
२९ – तृणं वर्त्तते, किम्भूतं - मोदारिहं मोदो हर्षस्तत्प्रधाना अरयस्तान् हन्ति हिनस्ति मोदारिहं, नेति निषेधे, तृणमुखा (४) स्ते वैरिणो जीवन्तीत्यर्थः ॥
( ५१ )
३०—ऋणं वर्त्तते, हम्त इति खेदे, किम्भूतं नमोदारि-न बुद्धिर्मोदो हर्षस्तस्यारिर्वैरिभूतं वर्त्तते, ऋणे सति बुद्धिहषौ नश्यत इत्यर्थः ॥
३१–नमो अरिहंताणं अरिभं रिपुनक्षत्रं, तत्र अतो, गमनं यस्यसः, अत सातत्यगमने, एवं विधोमश्चन्द्रः नं बन्धनम् विग्रहमित्यर्थः, तम, कारो froफले प्रकटे चेति वचनात् णं निष्फलं करोतीत्यध्याहारः (५) । अरिहन्ताग्रे प्रथमैक वचनस्य व्यत्ययोऽध्यासामिति वचनादपभ्रं शापेक्षया स्वम् जस्शसां लुगिति लुक, एवमन्यत्रापि ज्ञेयम् ॥
३२ --- भशब्देन राशिरत्युच्यते भवनमपि ततोऽरिभं रिपुभवनं यदाकार्यमिति शेषः, मश्चन्द्रो न प्राकः न प्राप्तः, तदा छणं सफलं स्यात्, षष्ठभवने चन्द्रस्त्याज्य इत्यर्थः ॥
३३–ता तावत्, अनः शकटं वर्त्तते, किम्भूतं नमो अरिहं नमोदरिहं १- "अर्हतः” इति शतृ प्रत्ययान्तस्य पदस्य " प्राप्तान्" इत्यर्थश्चिन्त्युः ॥ २ - प्राकृतं पदमवगन्तव्यम् ॥ ३-“अर्हः” इति पदस्य " प्राप्तः " इत्यर्थश्चिन्त्यः ॥ ४- तृण मुखे बिधायेत्यर्थः ॥ ५- "करोति" इति क्रियापदस्याध्याहारः कर्त्तव्य इत्यर्थः ॥
Aho! Shrutgyanam