________________
(५०)
श्रीमन्त्रराजगुणकल्पमहोदधि ॥ दरी स्त्री इत्यर्थः, सा पानम्-प्रासमन्तात् नं बन्धनम्, स्त्रियः सर्वत्र बन्धन रूपा इत्यर्थः ॥
१४---अरिहंताणम्-अहंदाज्ञाम्प्रति नम महीभव; इति शिष्यस्य कथनम्।
१५–मः शिवः, शिव शब्देन मोक्षो ज्ञेयः, तस्योपरि हन्ता गन्ता न वर्तते, मुक्त रुपरि अलोकसद्भावेन कस्यापि गमनं नास्ति, हनंक १) हिंभा गत्यो. रिति गत्यर्थः ॥
१६-इह जगति अं परब्रह्म, तस्य तानं विस्तारम् उ अ पश्य, मर्व स्मिन् जगति ब्रह्म वास्तीति वेदान्तिमतम्, नमः विधाता, “ मश्चन्द्र विधौ शिवे," विधाता जगत्कर्ता कोऽपि तन्मते न वत्तते इत्यर्थः ॥
१७-न विद्यते रा द्रव्यं यस्य तत् प्ररि, निद्रव्यं कुलमित्यर्थः, तत् किम्भत(२)हताणं हो निवासस्तस्यातानं लाघवं यस्य तत् निधनस्य गृहलाघव स्यात्, तानो विस्तारः, अतानं लाघवम्, न मा इति निषेधद्वयं प्रकृत (३मर्थ ब्रूते, ऊ इति पूरणे ॥
१८-तस्तस्करः, तस्य भा समन्तात् नं बन्धनम् किम्भूतं नमोत्परिघं नमत भारतः परतोऽपि द्वारादिष मिलन उत्प्रबलः परिघोला यत्र सदेव चौर बन्धनं स्यात् ॥
१०-अरि प्राप्नुवत् (४) हकारो यत्र, एतावता सकारस्तस्मात् अन्ता. नम इति योज्यते, तदा सन्तानम्, (५) इति स्यात्, ततः संतानं (६) मा लक्ष्मीश्च ऊः रक्षणं न स्यात्, दुर्गतिपातत इति ॥
२०--अर्हन्तः सामान्यकेवलिन स्तेभ्यो नमः॥
२१-श्रो इति सम्बोधने, नं बुद्धिम्, अर्हन्तं प्राप्नुवन्तं, बुद्धिनिधानं मन्त्रिणम्, अत सातत्यगमने, प्रत (७) गत्या ज्ञानार्था इति. स्वराणां स्वराः इत्याकारः, णं वाक्यालङ्कारे ॥
२२–अर्हद्भ्यः पूज्येभ्यो मातापितृप्रभृतिभ्यो (८) नमः ॥ २३-अर्हतः स्तुत्यान् सत्पुरुषान् नमः, स्नु ग्(ल) द्विषाह तृशत्रु स्तुत्ये इति।। १-पाणिनीय व्याकरणे हन धातुः॥ २-वक्ष्यमाणार्थविवक्षया "हाताणम्” इत्युपन्यसनीयम्भवेत् ॥३-असक्तम् ॥ ४-"अरी प्राप्नुवन्” इति भवितव्यम् ॥ ५-नियमेन "सान्तानम् इतिभवितव्यम् ॥ ६-क्लीवत्त्वञ्चिन्त्यम् ॥७-अत इत्यस्यैवार्थः "जानीहि" इति ॥ ८-प्रभृति शब्देन गुर्वाचार्यादि ग्रहणम् ॥ ६-जु गित्यारभ्य स्तुत्ये इत्यन्तः सन्दिग्धः पाठः ॥
Aho! Shrutgyanam