________________
श्रीमन्त्रराजगुणकला महोदधि ॥
यदोत्तरामुखः कुर्यात्, साधको देवपूजनम् ॥ तदा याम्यान्तु वायव्यां गत्त्वा कुर्यात्तु संस्थितिम् ॥४॥ दक्षिणाद्वायवीं गत्वा दिशं तस्माच्च शाम्भवीम् ॥ ततोऽपि दक्षिणं गत्वा, नमस्कारस्त्रिकोशवत् ॥५॥ त्रिकोणो यो नमस्कारः, त्रिपुराप्रीतिदायकः ॥६॥ दक्षिणाद्वायवीं गत्वा, वायव्यात् शाम्भवीं ततः ॥ ततोऽपि दक्षिणं गत्वा, तां त्यक्त्वाग्नौ प्रविश्य च ॥७॥ अग्नितो राक्षसों गत्त्वा ततश्चाप्युत्तरांदिशम् ॥
,
उत्तराञ्च तथाऽऽग्नेयीं, भ्रमणं द्वित्रिकोणवत् ॥ ८ ॥ षट्कोणो यो नमस्कारः, प्रीतिदः शिवदुर्गयोः ॥ दक्षिणाद्वायवीं गत्वा तस्माद्व्यावृत्यदक्षिणम् ॥ गत्वायोऽसौनमस्कारः, सोऽर्धचन्द्रः प्रकीर्त्तितः ॥ १० ॥ सकृत्प्रदक्षिणं कृत्वा, वर्तुलाकृतिसाधकः (१) ॥ नमस्कारः कथ्यतेऽसौ प्रदक्षिणइतिद्विजैः ॥ ११ ॥ त्यक्त्वा स्वमासनस्थानं, पश्चाद्गत्वा नमस्कृतिः ॥ प्रदक्षिणं विना यातु, निपत्य भुवि दण्डवत् ॥ १२ ॥ दण्डइत्युच्यते देवैः, सर्वदेवौघमोददः ॥ १३ ॥ पूर्ववद् दण्डवद्भूमौ निपत्य हृदयेन तु ॥ चिकेन मुखेनाथ, नासया त्वलिकेन च ॥ १४ ॥ ब्रह्मरन्ध्र ेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात् ॥ तदष्टाङ्ग इतिप्रोक्तो, नमस्कारो मनीषिभिः ॥ १५ ॥ प्रदक्षिणत्रयं कृत्वा, साधको वलाकृतिः ( २ ) ॥ ब्रह्मरन्ध्रेण (३) संस्पर्शः, क्षितेर्यः स्यान्नमस्कृतौ ॥ १६ ॥ सउग्रइतिदेवौघै, रुच्यते विष्णुतुष्टिदः ॥ १७ ॥
१- " तिष्ठेत्" इत्यध्याहार्यम् ॥ २- "तिष्ठेत्” इति शेषः ॥ ३-" तस्य " इति शेषः ॥
( १६० )
Aho! Shrutgyanam