________________
( १३८ )
श्रीमन्त्रराज गुणकल्पमहोदधि ॥
१० - श्रद्यम्पदं (१) ब्रह्मरन्ध्र, द्वितीय (२) भाले, तृतीयं (३) दक्षिणश्रवखे (४), तुर्यम (५) वटौ (६), पञ्चमं (9) वामकर्णे, चूलापदानि (c) दक्षिणसंख्यादि विदिक्षु (९), इति पद्मावर्त्तनापः (९०), कर्मक्षयातिरेकाय (११), मनः स्थैर्य हेतुश्वात् ॥
११ - पढमं हवाइ मंगलं वज्रमयी शिला मस्तकोपरि, णमो अरिहंताणं झङगुष्ठयोः, णमो सिद्धारां तर्जन्योः, रामो आयरियाणं मध्यमयोः, णमो उवज्झायाणं अनामिकयोः, णमो लोए सब्बसाहूणं कनिष्ठिकयोः, एसो पंच णमोक्कारो वज्रमयः प्राकारः, सव्वपावप्पणासणी जलभृतां खातिकाम्, मंगलाणं च सव्वेसिं खादिराङ्गार पूर्णा खातिकाम्, प्रात्मन (१२) श्चिन्तयेत्, महाकलीकरणम् (१३) ।।
१२- ह्रां ह्रीं ह्रौं (ह) (१४) ह: असिना उसा स्वाहा (१५) ह्रीं (हृां) (१६) सिया उसा नमः (१७) | द्वावपि एतौ मन्त्रौ सर्वकामदौ ॥
१३–अरिहंतसिद्ध (१८) आायरिय उवज्झाय साधु || षोडशाक्षर्या स्या विद्याया जापः (१९) २००, चतुर्थफलम् (२०) ॥
१- प्रथमम् ॥ २- पदमिति शेषः ॥ ३-पदमिति शेषः ॥ ४-दक्षिणकर्णे ॥ ५चतुर्थम् ॥ ६-अवटु शब्दात् सप्तम्येकवचने रूपम्, सच ग्रीवाशिरः सन्धिपश्चाद् भागस्य वाचकः ॥ ७- पदमिति शेषः ॥ ८-" एसोपञ्च णमोक्कारो " इत्यारभ्य चत्वारि पदानि ॥ १- दक्षिणसंख्यामादौ कृत्वा सर्वासु विदिक्षु इत्यर्थः ॥ १०- पद्मावर्त्तनवज्जपनम् ॥११- अतिशयेन कर्मक्षयाय ॥ १२- षष्ठ्यन्तम्पदम् ॥१३ - सन्दिग्धोऽयम्पाठः महाjanataणमिति स्यात्तर्हि साध्वेव ॥ १४- " ह्रौं" इत्यस्मात् " हूं" इत्येवमेव पाठः सम्यगाभाति ॥ १५-पूर्वोक्ते नवकारमन्त्रसङ्ग्रहे “ओ ह्रां ह्रीं ह्रीं ह्रीं ह्रः अ-सि-अ-उसाखाहा" इत्येवम्मन्त्रोऽस्ति ॥ १६- “ह्रीं” इत्यस्मात् "हां" इत्येवमेव पाठः सम्य
वगम्यते ॥ १७ पूर्वोके नवकार मन्त्र सङ्ग्रहे "ओं अहं सः ओअर्ह औं श्रीं अ-सि-आ-उसा नमः" इत्येवम्मन्त्रोऽस्ति, एवस्मन्त्रऽपि मते "अहँ" स्थाने "अर्ह” “अँ " स्थाने “ऐं” इत्येवम्पाठेन भवितव्यम् ॥ १८-पूर्वोक्त नवकारमन्त्रसङ्ग्रह - “अरुहन्त सिद्ध आयरिय उवज्झाय सव्वसाहूणं" इत्येवम्मन्त्रोऽस्ति, तत्फलञ्च द्रव्यावाप्तिरूपम्प्रतिपादितं तत्र ॥ १६- शतद्वयवार जापः कर्त्तव्य इत्यर्थः ॥ २०- भवतीति शेषः ॥
Aho! Shrutgyanam