________________
(६४)
श्रीमन्त्रराजगुणकल्पमहोदधि ॥ राहुः चन्द्रसूर्यो ग्रस्यतीति राहोश्चन्द्र नाशः, पुनः किंविशिष्टा-तानः तो युद्ध तस्य नो वन्धो रचना यस्मात्स तथा, (१) राहुसाधना पूर्व युद्ध क्रियते इति इदं विशेषणं युक्तिमत् (२) ॥
१०९-अथ केतुः-उदरहो राहुः, पूर्वबयाख्या, (३) तस्य तः पुच्छ केतुः तकारस्तस्फरे युद्ध को हे पुच्छे चेत्येकाक्षरवचनम्, केतुस्तु राहुपुच्छ स्वेन ज्योतिर्विदाम्प्रसिद्धः, यतः “तत्पुच्छे मघुहायामापदुःखं विपक्षपरितापः अत्र तत्पुच्छ इतिराहुपुच्छ केतुरित्यर्थः, इतितामिके, हे उदरह त्वम् ऋण ऋणवदावर, मानिषेधे, ऋणं यथा दुःखदायि तथा केतुरप्युदितः सन् जन पीड़ाकरस्तत (४ एवमुच्यते, (५) त्वं माऋ ण, नकारोऽपिनिषेधार्थे, द्विद्ध सुवद्ध भवतीति निषेधद्वयं विशेषनिषेधायेति ॥
१९०-अथ नवरसा वय॑न्ते तत्रपूर्वशृङ्गाररसो यथा कश्चित्कामी कुपित कामिनी प्रसत्ति (६) कृते वक्ति-हे नमोदर हे कृशोदरि, त्वमणवद, हन्ते. ति कोमलामन्त्रण, नम नमत् कृशमुदरं यस्याः सा, नमोदरी वामोदरी, तस्याः सम्बोधनम्॥ (७)
इति श्रीपरमगुरुश्रीजिनमाणिक्यसूरि शिष्य पण्डित विनयसमुद्रगुरू राज पादुकाप्रसादासादिताधिगमपण्डित गुणरत्नमुनिना (८) लिखितम् । श्रीः, श्रीः, शुभम्भवतु ॥
१-"तो युद्ध रास्य आसमन्तात् नो वन्धो रचना यस्मात्स तथा ” इति वक्तव्यमासीत्, अन्यथा तान शब्दासिद्धिरेव भवेत् ।। २- युक्तियुक्तम् ॥ ३- " ज्ञेया ” इति शेषः ॥ ४-तस्मात्कारणात् ॥५- पूर्वोक्तम् ६- प्रसत्तिः प्रसादः ॥ ७- नवरस वर्णनाधिकारम्प्रति श्रुत्यादयरसवर्णन एव ग्रन्थपरिसमाप्तिः सन्दर्भविच्छेदपरिचायिकेति ॥ ८- पण्डित गुणरत्नमुनिरयं कदा भूदिति सम्यक्तया नावगम्यते ॥
Aho! Shrutgyanam