________________
श्रीमन्त्रराज गुणकल्पमहोदधि ।
( ६० )
भूतो णिगर्थो ज्ञेयः श्रो इति है इत्यर्थे ।
"
०१ - मश्चन्द्रे विधौशिवे इति वचनात् मश्चन्द्रस्तेन ऊतं कान्तं मातं चन्द्रकान्तमित्यर्थः, अव धाताः कान्त्यर्थात् क्त प्रत्यये जतं कान्त मित्यर्थः, रोऽग्निस्तत्तुल्यं तथा हर्दिनम्, ग्रहः करोति णिजि क्विपि श्रहः सूर्यः तद्वदन्तः स्वरूपं यस्य सूर्यकान्त इत्यर्थः, एतावता चन्द्रकान्त वह्नि वर्ण सूर्यकान्तादीनि रत्नानि उपलक्षणादन्यान्यपि रत्नानि ग्राणि तेषां गणः समूहोऽस्ति,
,
क ग च जेति गलुक, पदयोः सन्धिर्वेति सन्धिः, or चक्काओ चक्रवाकः, शि समाधौ नेशति समाधिं करोति चित्तस्वास्थ्यं निर्मातीति डे नः
९२ – अथाग्निः - अजः छागो रथो वाहनं यस्य सः अजस्थो वह्निः, तम्, त्र्यणम् त्रयोऽणाः शब्दा यस्य स त्रिविधोऽग्निरिति कविसमयः, श्रो इति सम्बोधने, तं नम प्रणमेति ॥
०३ - नमो अरहंताणं ॥ नं ज्ञानम्, अरहन्तागमत्यजताम्पुरुषाणाम् उ भवति, उख् नखेति गत्यर्थो दण्डक धातुः, ओखणम् प्रोग्, विधि सिद्धम्, व्यञ्जनल पे प्रो गतिर्भवतीत्यर्थः, गतिः सैव या सद्गतिः, यथा कुले हि जातो न करोति पापम् इत्यत्र कुलं तदेव यत्सत्कुलमिति ॥
66
ޕ
९४ - हंस श्रयति वाहनतया शिजि क्विपि हन्, प्रो इति सम्बोधने, हे हन् हे सरस्वति, नोऽस्माकं नं ज्ञानं तां शोभाञ्च तर देहि, तृ धातुर्दाने अन्यथा विपूर्वोऽपि दाने न प्रवर्त्तेत, उपसर्गाणां धात्वर्थद्योतकत्वात् तृ धातुनार्थोऽस्तीति ॥ ]
ल५३-- अन्त शब्देन देशे समुदायोपचारात् हेमन्त इति, अहर्दिनं नमतीति नमं कृशम्, हे हेमन्त ऋतो त्वं नमं कृशं दिनम् अर प्राप्नुहि, रामलङ्कारे, हेमन्ते दिनलघुतेति प्रसिद्धिः ॥
९६ - रस्तीक्ष्ण इति वचनात् रं तीक्ष्णम्, उष्णमिति यावत्, न रम् अरम्, अतीक्ष्णः शिशिरऋतुरित्यर्थः, तस्मिन्नरे शिशिर ऋतौ इत्यर्थः, अप्रभ्रंशे इकारः, व्यत्ययोऽप्यासामिति व्यत्ययः स्याच्च, हं जलं तस्मात्तन्यन्ते विस्तारं यान्ति हतानि जलरुहाणि, पद्मानीत्यर्थः तेषां नमो नमनं कृशता भवति शिशिरे हि कमलानि हिमेन शुष्यन्तीति प्रसिद्धम् ॥
"
Aho! Shrutgyanam