________________
सेठियाग्रन्थमाला
(५०)
कारक प्र०
भिक्खुप्रभृतिभ्यश्च ॥२२॥५॥ एभ्यः स्त्रियां णीप्रत्ययः स्यात् । भिक्खुणी। साहुणी। गाहावड़णी, गाहावतिणी । गहवइणी ॥
सिस्समासयोणीति सलोपे ॥२॥२॥१०॥ अनयोरकारस्येकारः स्यारिणाप्रत्यये सलोपे सति । सीसिणी । पुराणमासिगी । सलोपे किम्। सिस्सणी ॥
इति स्त्रीप्रत्ययप्रकरणम् ॥
अथ कारकप्रकरणम्॥
करणप्रयोजकः कर्ता ॥१॥१॥२६॥ करणनिष्ठच्यापारजनकः कर्तृसंज्ञः स्यात् ।।
कर्तरि प्रथमा ॥२॥२॥१२॥ कर्तरि वाच्ये नान्नः प्रथमा विभक्तिः स्यात् । “अज जंबू ......अप्पाणं भावेमाणे विहरति" ॥
आमन्त्रणे च ॥२॥२॥१३॥ आमन्त्रणेऽर्थे प्रथमा स्यात् । 'भो जिण ! भो जिणे ! अज्जो! आउस ! रायं॥
क्रियया कर्तुरिष्टं कर्म ॥११२७॥ क्रियाजन्यफलववेन कर्तुरिच्छाविषयः कर्मसंज्ञः स्यात् ।
१ भिक्खु, गहवइ, गारत्य, गाहावइ, गुब्व, घर, नत्तु, साहु, सिरस, सीस, एते भिक्खुप्रभृतयः ॥
२ आर्थजम्बू:........आत्मानं माहिरति । नाया. १-५ ॥
Aho! Shrutgyanam