________________
जैन सिद्धान्तकौमुदी
अथ परिभाषाप्रकरणम् ॥ आदेदोतामदिदुतो ह्रस्वाः ॥ १|१|३५ ॥
तकार उच्चारणार्थः । हस्वादेशो विधीयमान आकारस्याकार एकास्येकार प्रकारस्योकारो बोध्यः ॥ अदिदुतामादेदोतो वृद्धिः ||१|१|३६||
अकारेकारोकाराणां वृद्ध्यादेशो विधीयमानः क्रमादाकारैकारौकारा ज्ञेयाः ॥
अदाताविदतादूतौ सवर्णो ॥ १|१|३७|
सवर्णादेशो विधीयमानः क्रमेणोक्तयोरेकस्यापरो बोध्यः॥ व्यञ्जनेषु प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च प्रथम
तृतीयौ ॥ १|१|३८||
व्यञ्जनवर्णेषु कचटतपवर्गाणां कवयोर्गघयोश्च कगौ, चळयोर्जझयोश्च चजौ, टटयोर्डदयोश्च टडौ, तथयोर्दधयोश्च तदौ, पफयोर्वभयोश्च पयौ, सवर्णो ज्ञेयौ ॥
समानयोर्विरोधे परम् ॥ १|१|३९|| तुल्यबलकविरुद्धकार्यद्वयप्रसङ्गे परं कार्य स्यात् ॥
षष्ठया अन्त्यस्य ॥ १|१|४०|| षष्ठीनिर्देशेन क्रियमाणं कार्यमन्त्यस्य बोध्यम् ॥
विशेषणं तदन्तस्य ॥ १|१|४१ ॥
विशेषणीभूतं तदन्तस्य संज्ञा स्यात् ॥
(३)
Aho! Shrutgyanam