________________
(२०)
महाराष्ट्रीजैनमहाराष्ट्रीप्राकृतभाषातोऽर्द्धमाग ध्या भेदः स्पष्टः प्रतीयते तथा च तद्भाषायाः स्वतन्त्र व्याकरणेनावश्यं भवितव्यमिति मनोरथो मनसि कियता कालेनासीदर्द्धमागधी कोष निर्माणानन्तरं स दृढतरोऽभवत्तावतोदारचित्ताग्रणीश्रीमदगर चंद भेरौदानश्रेष्ठिवराणां राजस्थानान्तर्गतविक्रमपुर (बीकानेर) निवासिनां तस्मिन् कार्य प्रेरणा जाता तदुत्साहितो मैथिलपण्डितश्री यदुनाथमिश्रस्य साहाय्येन गहनमप्येतत्कार्य मानवकेन पारयितुं समर्थोऽभवम् ।
इयं भाषा संस्कृतमूला वा स्वतन्त्रेति विमशस्तु नेह क्रियते प्राकृतपाठमालाया उपोद्घाते विस्तरेण तचिन्तनातचैव प्रेक्षावद्भिर्निरीक्षणीयम् ।
संस्कृत सिद्धान्तकौमुद्यनुसारिशैली विशिष्टत्वाज्जैनागम भाषालक्षणप्रदर्शनद्वारा जैन सिद्धान्तानां कौमुदीवत्प्रकाशकत्वाच्चास्य व्याकरणस्य जैन सिद्धान्तकौमुदीति नामधेयमुखि - तमेव प्रतिभाति.
प्राय आगमोदयसमितिमुद्रित जैनसूत्राणामर्द्धमागधीकोषस्य चाधारेणास्य रचना समजनि । यद्यप्यन्यापेक्षया स मितिमुद्रणं संशुद्धं विद्यते परन्तु कालप्रवाहेण लेखकानां स्खलनया सूत्रेष्वनेकानि पाठान्तराणि जातानि - त्थकारच्छकारयोः सादृश्येन कचित् पुरत्थिमः कचित्पुरच्छिमः, कचिदत्थिवेपणा, कचिदच्छिवेयणा, ग्गगाक्षरयोः सादृश्येन sorts पडिगाड इत्याद्यनेकानि संदेहस्थानानि सन्ति तास्थलेषु कचिद्यथामति निर्णयः कृतः कचित्तृभयपाठः
समाहतः ।
Aho! Shrutgyanam