________________
(७)
वस्तुतस्तु अर्द्धमागधीशब्दोन भाषाश्रितः किन्तु देशाश्रितः, तथाहि- मगधदेशस्याईम मगधः, अाईमगधस्य भाषा अर्द्धमागधी शूरसेनमगध्देशयोरन्तरालप्रदेशे या भाषाभाष्यमाणाऽऽसीत्साऽर्द्धमागधी। यदुक्तं निशीथचूर्णीश्रीजिनदासमहत्तरेण "मगहद्धविसयभासानिबद्धं अद्धमागह" श्रीमार्कर डे. यमहर्षिणा प्राकृतसर्वस्वे तदेवोतं-"शौरसेन्या अदूरत्वादियमेवार्द्धमागधी' अर्थात् शूरसेनदेशस्य भाषा शौरसेनी, मगधदेशस्य भाषा मागधी,मगधशूरसेनमध्यभागस्य भाषाऽर्द्धमागधी । पालीभाषावत् स्वतंत्रेयं भाषा । बहुलांशेन पालीसंदृशा स्वल्पांशेन भिन्ना। पालीभाषायां यथा बौद्धसाहित्यं तथाऽर्द्धमागधीभाषायां जैनधर्मस्य पुरातनसाहित्यं । पालीभाषानिबद्धं बौद्धसाहित्यं यथाऽद्यावधिपालीभाषायामेवावतिष्ठते तथाऽर्द्धमागधीनिबद्धं जैनसाहित्यमद्यपर्यन्तं तस्यामेव भाषायामवतिष्ठते । भेदस्त्वयं यहोद्धस्त्राणां टीका अपि पालीभाषायामेवासन् तेन तस्या अद्यावधि तथैव प्रचारो. ऽनेकानि च व्याकरणानि विद्यन्ते ऽद्धमागधीभाषायां जैनसूत्राणां टीका न निर्मिता जैनाचार्येस्तेन तस्याः प्रचारोन तथा नापि तस्या एकमपि व्याकरणं विद्यते । ___यत्तु भरतेनोक्तं राक्षसीष्ठिचेटानुकादेरर्द्धमागधी' यथा अजविणोशामिणीए हिलियादेवीए पुश्नघडुक्क अशोए ण उवशमदि"इयं नाटकादिषु प्रयुक्ताईमागधी जैनसाहित्यनिघद्धार्द्धमागधीतोऽतीव भिन्नाऽर्वाचीन च स्पष्टतया प्रतीयते। तथा च मागधीवर्द्धमागध्यपि प्राचीनाऽर्वाचीनेति भेदव्यमापन्ना।
चत ।
Aho! Shrutgyanam