________________
॥ ॐ अहम् ॥ - ॥ नमोऽस्तु श्रमणाय भगवते श्रीमहावीराय ॥
॥ उपकेशगच्छीया पट्टावलिः॥
॥ श्रीमत्पार्श्वजिनेंद्राय नमः ॥ श्रीमत्केशीकुमारगणधरेभ्यो नमः ॥ श्रीमद्रत्नप्रभसूरिसद्गुरुभ्यो नमः ॥ ओकेशशद्वस्यार्थाः लिख्यते ॥ इशिक ऐश्वर्ये, ओकेषु गृहेषु इष्टे पूज्यमाना सती या सा ओकेशा सत्यिका नाम्नी गोत्रदेवता । अत्र ओक शहो अकारांतः तस्यां भवस्तस्या अयमिति वा ओकेशः। भवे इत्यण् प्रत्ययः, तस्येदमित्यनेन वा अणप्रत्ययः । सत्यिका देवी हि नवरात्रादिषु पर्वसु अस्मिन् गणे पूज्यते सा चास्य गणम्य अधिष्टाती अतएवास्य गच्छम्य ओकेश इति यथार्थ नाम प्रोद्यते सद्भिरिति प्रथमोऽर्थः ॥ १ ॥
ईशनमीशः ऐश्वर्य ओकैर्महर्द्धिक श्राद्धप्रमुखलोकानां गृहरीशो यस्यां सा ओकेशा ओसिका नयरी । तत्र भव ओकेशः । ओसिकानगर्या हि अस्य गणस्य ओकेश इति नाम श्रीरत्नप्रभसूरीश्वरसो विख्यातं जातमिति द्वितीयोऽर्थः ॥ २ ॥
___ अः कृष्णः उः शंकरः को ब्रह्मा । एषां द्वंद्वसमासे ओकास्ते ईशते पूज्यमानाः संतो देवत्वेन मन्यमानाः संतश्च येभ्यस्ते ओकेशाः। ओके कृष्णशंभुब्रह्मभिर्देवैरीशते येते वा ओकेशाः । परशासनजनाः क्षत्रियराज्यपुत्रादयः प्रतिबोधविधानात्तेषामयं ओकेशः । तस्येदमित्यणप्रत्ययः । श्रीरत्नप्रभसूरिभिस्तेषां पारतार्थिकधर्मनिष्ठातः सिद्धान्तोक्तविशुद्धजैनधर्मनिष्ठायां प्रतिबोधदानेन प्रवर्तना कृता । तथा च श्रूयते पूर्व हि श्रीरत्नप्रभसूरीणां गुरवः श्रीपार्थापत्यीयकेशीकुमारानगारसंतानयित्वेन विख्यातिमंतो जगति जज्ञिरे । ततः प्राप्तसूरिमंताः ससत्तंत्रा रमणीयाऽतिशयनिचयाः स्वकीयनिस्तुषशमुखीप्रागभारसंभारात् ज्ञातदिदशसूरयः श्रीमच्छीरत्नप्रभसूरयः कियति गते काले विहरंतः संतः श्रीओसिका. नगर्या समवसृताः । तस्यां च सर्वे लोकाः पारतीर्थिकधर्मधारिणो संति । न कोपि जैनधम्मर्धारी। ततः साध्वाचारं प्रतिपालयद्भिः सिद्धान्तोक्ततीर्थकरधर्मशुभकर्मप्ररूपणां कुर्वद्भिः सद्भिः श्रीरत्नप्रभसूरिभिः पारतीर्थकानेकच्छेकविवकिलाकाः प्रतिबोधितास्ततः एते ओकेशा इति विरूदो विख्यातो जातः । इति तृतीयो अर्थः ॥ ३ ॥
_ अः कृष्णः, आ: ब्रह्मा, उः शंकरः, एषां द्वंद्वे आवस्ततः ओभिः कृष्णब्रह्मशंकरदेवैः कायते स्तूयते देवाधिदेवत्वादिति ओकः प्रस्तावात् श्रीवर्धमानस्वामी क्वचिदिति ड प्रत्ययः, ओकश्चासौ ईशश्च ओकेशस्तम्याय ओकेशः वर्तमानतीर्थाधिपतिश्रीवर्धमानजिनपतितीर्थाश्रयणादिति चतुर्थोऽर्थः ॥ ४ ॥
Aho ! Shrutgyanam