________________
उपकेशगच्छीया पट्टावली अः अर्हन्,अः स्यादर्हति सिद्धे चेत्युक्तेः । प्रस्तावादिह अ इति शब्देन श्रीवर्धमानस्वामी प्रोच्यते । ततः अस्य ओको गृहं चैत्यमिति यावत् , ओकः श्रीवर्धमानस्वामिचैत्यमित्यर्थः । तस्मादीशः ऐश्वर्य यस्य स ओकेशः यतोयं गणः श्रीमहावीरतीर्थकरसान्निध्यतः स्फातिमवापेति पंचमोऽर्थः ॥ ५ ॥ एवमस्य पदस्यानेकेप्याः संबोभुवति परं किं बहुश्रमेणेति ॥
__ अथ उपकेशशब्दस्य कियंतोऽर्था लिख्यतेः । उप समीपे केशाः शिरोरूहाः सत्यस्येति उपकेशः । श्रीपार्थापत्यीयकेशिकुमारानगारः । एतदुत्पत्तिवृत्तांतस्तुः श्रीस्थानांगवृत्त्यादौ सप्रपंचः प्रतीत एवास्ति । तत एवावगंतव्यः। ततः उपकेशः श्रीकेशिकुमारानगारः पूर्वजो गुरुर्विद्यते यस्मिन् गणे स उपकेशः । अभ्रादित्वाद प्रत्ययः । अस्मिन्गछे हि श्री केशिकुमारानगारः प्राचीनो गुरुरासीत् । ततो यथार्थमुपकेश इति नाम जातमिति प्रथमोऽर्थः ॥ १ ॥
उपवर्जितास्त्यक्ताः केशा यत्र सः उपकेशः ओसिकानगरी तस्यां हि सत्यिका देव्याश्चैत्यमस्ति । तदने च घनर्जनैः प्रथमजातबालकानां सुदिने दिने मुंडनं कार्यते तत उपकेश इति यथार्थ नाम ओसिकानगर्याः प्रख्यातं जातं । तत्र भवो यो गच्छः स उपकेशः प्रोद्यते सद्भिविद्वद्भिः । अत्र हि भवे इत्यनेन सूत्रण अणि प्रत्यये संज्ञापूर्वकस्य विधेरनित्यत्वाद्वद्धरभावः । श्रीरत्नप्रभसरितो अनेक श्रावक प्रतिबोधविधानानंतरं लोके गच्छस्य उपकेशेति नाम प्रसिद्धं जातमिति द्वितीयोऽर्थः ॥ २ ॥
को ब्रह्मा, अः कृष्णः, अः शंकरः, ततो द्वंद्वे काः । तैरीष्टे ऐश्वर्यमनुभवति यः सः केशकानां ईशः ऐश्वर्य यस्माद्वा केशः पारतीर्थिकधर्मः सः उपवजितस्त्यक्तो यस्मात्स उपकेशस्तीर्थकृदुक्तविशुद्धधर्मः स विद्यते यस्मिन् गच्छे स उपकेशः । अत्रापि अभ्रादित्वादप्रत्ययः । इति तृतीयोऽर्थः ॥ ३ ॥
कं च सुखं ई च लक्ष्मीः कयौ ते ईशे स्वायत्ते यत्र यस्माद्वा स केश:--अर्थात् जैनो धर्मः । स उपसमीपे अधिको वाऽस्माद्गच्छात्स उपकेशः इति चतुर्थोऽर्थः ॥ ४ ॥
कश्च अश्च ईशश्च केशा:-ब्रह्मविष्णुमहेशाः । तद्धर्मनिराकरणात्ते उपहता येन सः उपकेशः । प्रकरणादत्र श्रीरत्नप्रभसारः गुरुः तस्यायं उपकेशः । अत्रापि तस्येदमित्यणि प्रत्यये पूर्ववद्वृद्धेः अभावो न दोषपोषायेति पंचमोऽर्थः ॥ ५ ॥
इत्थमन्येऽप्यनेके अर्था ग्रन्थानुसारेण विधीयते, परमलं बहुश्रमेणेति । एवमुक्तव्यक्तयुक्तिव्याक्तिशक्त्या ओकेशोपलक्षणे उभे अपि नाम्नी यथार्थे घटां प्राचतः ॥इति ओकेशोपकेशपदद्वयदशार्थी समाप्ता ॥
संवत् १६५५ वर्षे ॥ श्रीमद्विक्रमनगरे सकलवादिवृंदकंदकुद्दालश्रीकक्कुदाचार्यसंतानीयश्रीमछीसिद्धसूरीणां आग्रहतः श्रीमहत्खरतरगच्छीयवाचनाचार्यश्रीज्ञानविमलगणिशिष्यपंडितश्रीवल्लभगाणाविरचिता चेयम् । श्रीरस्तु ॥
ग्रीष्महेमंतिकान् मासान्, अष्टौ भिक्षुः प्रचक्रमे ।
रक्षार्थं सर्वजंतूनां वर्षास्वैकत्र संवसेत् ॥ १ ॥ - मनुष्याणां सर्वेषु पदार्थेषु सारो धर्म एव । मनुष्यत्वं धर्मेणैव वर्ण्यते ॥ स धम्मो वर्षासु मुनिपार्थात् श्रोतव्यः । यतयो वर्षास्वकत्र तिष्ठन्ति, किमर्थ सर्व जंतूनां रक्षार्थ । धर्मस्य सारं सर्व
Aho! Shrutgyanam