________________
ज्ञान-प्रदीपिका। जलं न विद्यते तत्र फणिदृष्टे बहूदकम् ॥१५॥ अधस्तादुदयारूढे तच्छतो चोपरि स्थिते। जलग्रहयुते दृष्टे अधस्तात्स्यादधोजलम् ॥१६॥ उच्च दृष्टे ग्रहे राशौ उच्चमेवोदकं भवेत् । ऊर्ध्वाधस्थलयोः पापाः तिष्ठन्ति यदि नोदकम् ॥१७॥ अधोजलं चतुःस्थाने नाधस्ताद्यागमं वदेत् । दशमे नवमे बर्षे केविदाहुर्मनीषिणः ॥१८॥ जलाजलग्रहवशात् जलनिर्णयमादिशेत् । केन्द्रषु तिष्टतश्चन्द्रो जीवो यदि शुभोदकम् ॥१६॥ चन्द्रशुक्रयुते केन्द्र पर्वतेऽपि जलं भवेत् । चन्द्रसौम्ययुते केन्द्र जीर्ण स्यालवणोदकम् ॥२०॥ प्रारूढात्केन्द्रके चन्द्र परिध्यादिभिरीक्षिते । अधोजलं ततोऽगाधं पूर्वोक्तग्रहरश्मिभिः ॥२१॥ शुक्रण सौम्ययुक्तेन कषायजलमादिशेत् । कन्यामिथुनगः सौम्यो जलं स्यादन्तरालकम् ॥२२॥ भास्करे क्षारसलिलं परिवेषं धनुर्यदि । राहुणा संयुते मन्दे जलं स्यादन्तरालकम् ॥२३॥ बृहस्पतौ राहुयुते पाषाणो जायतेतराम् । शुक्र चन्द्रयुते राही अगाधजलमेधते ॥२४॥ अर्कस्योन्नतभूमिः स्यात् पाषाणा कण्टकस्थली । नालिकेरादिपूनागपूगयुक्ता क्षमा गुरोः ॥२५॥ शुक्रस्य कदली वल्ली बुधस्य पनसं वदेत् । बल्लिका केतकी राहोरिति ज्ञात्वा वदेद्बुधः ॥२६॥ शनिराहृदये काष्ठोरगवल्मीकदर्शनम् । स्वामिदृष्टियुते वापि स्वक्षेत्रमिति कीर्तयेत् ॥२७॥ अन्यैः युक्तऽथवा दृष्टे परकीयस्थल वदेत् ।
इति कूपकाण्डः। इस काण्ड का लोकक्रम "भवन" की प्रति के अनुकूल है।
Aho ! Shrutgyanam