________________
ज्ञान-प्रदीपिका ।
अथ कूपकाण्डः। अथ वक्ष्ये विशेषेण कूपखातविनिर्णयम् । आयामे वाष्टरेखाः स्युस्तीर्यग्र खास्तु पञ्च च ॥१॥ एवं कृते भवेत्कोष्ठा अष्टाविंशतिसंख्यकाः । प्रभाते प्राङ्मुखो भूत्वा कोष्ठेष्वेतेषु बुद्धिमान् ॥३॥ वक्रमालोकयेद्विद्वान् रात्रा दुत्तराननः । मध्याहे मुखमारभ्य मैत्रभाद्य निशामुखे ॥३॥ ईशकोष्ठद्वयं त्यक्त्वा तृतीयादित्रिषु क्रमात् । कृतिकादित्रयं न्यस्यं तद्धो रौद्रभं न्यसेत् ॥४॥ तदुत्तरं नयेष्वेव पुनर्वस्वादिकं त्रयम् । तत्पश्चिमादियाम्येषु मघाचित्रावसानकम् ॥५॥ तत्पूर्वकोष्ठयोः स्वातीविशाखे न्यस्य तत्परम् । प्रदक्षिणक्रमादग्निनक्षत्रान्ताश्च तारकाः ॥६॥ मध्याह्न दक्षिणाशास्यः पश्चिमास्यो निशामुखे । अर्द्धरा धनिष्ठाद्य पूर्ववत् गणयेत् क्रमात् ॥७॥ आग्नेय्यां दिशि नैऋत्यां वायन्यां कोष्टकद्वयम् । त्यक्त्वा प्रत्येकमेवं हि तृतीयाद्य विलेखयेत् ॥८॥ दिनार्ध सप्तभिर्सत्वा तल्लन्धं नाडिकादिकम् । ज्ञात्वा तत्तत्प्रमाणेन कृतिकादीनि विन्यसेत् ॥६॥ यन्नक्षत्रं तदा सिद्ध प्रश्नकाले विशेषतः। कृतिकास्थानमारभ्य पूर्ववद्गणयेत्सुधीः ॥१०॥ यत्कोष्ठे चन्द्रनक्षत्रं तत्रोदयनमालिखेत् । तदादीनि क्रमेणैव पूर्ववद्गणयेत्सुधीः ॥११॥ योन्दुदृश्यते तत्र समृद्धमुदकं भवेत् ।। जीवनक्षत्रकोष्ठेषु जलमस्तीत्युदाहरेत् ॥१२॥ तुलोक्षनककुम्भालिमीनकलिराशयः । जलरूपास्तदुदये जलमस्तीति निर्दिशेत् ॥१३॥ तत्रस्थौ शुक्रचन्द्रौ चेदस्ति तन बहूदकम् । बुधजीवोदये तन किञ्चिजलमितीरयेत् ॥१४॥ एतान् राशीन् प्रपश्यन्ति यदि शन्यर्कभूमिजाः ।
Aho ! Shrutgyanam