________________
ज्ञान-प्रदीपिका।
रनिर्गुणित्वा नवभिनखाप्त तालमुच्यते ॥७॥ तत्प्रादेशं प्रगुण्यांव्रतं विंशतिभिर्यदि । शेषमङ्गलमेवोक्त रनिप्रादेशमङ्गलम् ॥८॥ एवं क्रमेणरत्नाद्यमगाधं कथयेद्बुधः । केन्द्रषु पापयुक्त षु पृष्टं शल्यं न दृश्यते ॥६॥ शुभग्रहयुतेष्वेषु शल्यं तत्र प्रजायते । पापसौम्ययुते केन्द्र शल्यमस्तीति निर्दिशेत् ॥१०॥ रविः पश्यति चेहे कुजश्च ब्रह्मराक्षसान् । केन्द्र चन्द्रारसहिते कुजनक्षत्रकोष्टके ॥११॥ श्वशल्यं विद्यते तत्र केन्द्र जीवेन्दुसंयुते । जीवस्थोडुगते कोष्ठे स्वर्णगोपुरुषास्थिनी ॥१२॥ केन्द्र बुधेन्दुसंयुक्त बुधनक्षत्रकाष्ठके । श्वशल्यं विद्यते तत्र केन्द्र शुक्रन्दुसंयुते ॥१३॥ शुक्रस्थित“के कोष्ठे रौप्यं श्वेतशिलापि वा। बुधारूढकेन्द्रषु स्वर्भानुर्यदि तिष्ठति ॥१४॥ राहुतारायुते कोष्ठे वल्मीकं समुदीरयेत् । शुभाः केन्द्रगताः पापैः पश्यति बलिभिर्यदि ॥१५॥ तदा नीचारियुक्ताश्चत्तत्र शल्यं न विद्यते । शुक्रन्दुजीवसौम्याश्च केन्द्रस्थानगता यदि ॥१६॥ तौव दृश्यते शल्यं कण्टकस्थाः शुभं वदेत् ।। स्वक्षेत्रोच्चगताः सौम्याः लग्नकेन्द्रगता यदि ॥१७॥ तत्क्षेत्रे विद्यते शल्यं तेषु पापा यदि स्थिताः । देवपक्षिपिशाचाद्यास्तत्र तिष्ठन्त्यसंशयम् ॥१८॥ प्रहांशुसंख्यया तेषां खातमानं वदेत् सुधीः। पञ्चषट्वभूतानि सपादेकं तथैव च ॥१६॥ सार्धरूपातीरवयः सूर्यादीनां कराः स्मृताः । स्वशल्यगाधमनेनैव करेण परिमाणयेत् ॥२०॥
इति शल्यकाण्डः।
Aho ! Shrutgyanam