________________
शान-प्रदीपिका। प्रदर्शितस्य खड्गस्य लग्ने वा पापसंयुते । खड्गस्यादावृणं ब्रूयात् त्रिकोणे पापसंयुते ॥५॥ शस्त्रभङ्गस्थितो व्योम्नि चतुर्थे पापसंयुते । खड्गस्य भंगा मध्ये स्यादिति ज्ञात्वा वदेत्सुधीः ॥६॥ एकादशे तृतीये च पापे शस्त्राग्रमंजनम् । मित्रस्वाम्युच्चनीचादिवर्गानधिगतामहाः ॥७॥ तत्तद्वर्गस्थलायातं शस्त्रमित्यभिधीयते । सम्मुखे यदि खड्गः स्यात्तदीयं खड्गमुच्यते ॥६॥ तिर्यग्मुखश्चेत्तच्छामन्यशस्त्र वदेत्सुधीः । अधोमुखश्चेत्संग्रामेच्युतमाहृतमुच्यते ॥६॥ तत्तच्चेष्टानुरूपेण स्वान्याहरणविस्मृतिः। ग्रहपाकापभेदेन शास्त्र ज्ञानप्रदीपके ॥१०॥
इति क्षुरिकाकाण्डः
अथ शल्यकाण्डः। शल्यपश्न तु तत्काले पादभावसुनेत्रयुक् । अर्वाता नृपभक्ता शेषाणां फलमुच्यते ॥१॥ कपालास्थीष्टकालोष्टा काष्ठदैवविभूतयः। सर्वाङ्गारकधान्यानि स्वर्णपाषाणदर्दुराः ॥२॥ गोऽस्थिश्वास्थिपिशाचादिक्रमाच्छल्यानि षोडश । येषु शल्येषु मगडूकस्वर्णगोस्थिसुधान्यकाः ॥३॥ दृष्टाश्च दुत्तमं चान्ये सर्वे स्युरशुभाः स्थिताः। अष्टाविंशतिकोष्ठेषु वह्निदिष्ट्यादिकं न्यसेत् ॥४॥ यत्र भे तिष्ठति शशी तत्र शल्यनुदाहृतम् । उदयादिकं न्यस्येदष्टाविंशतिकोष्टके ॥५॥ गणयेश्चन्द्रनक्षत्रं तत्र शल्यं प्रकीर्तितम् । शंकास्थलस्य विस्तारौ यामाबन्योन्यताडितौ ॥६॥ विंशत्यापहृतं शिष्टमरनिरिति कत्तितम् ।
Aho! Shrutgyanam