________________
ज्ञान- प्रदीपिका ।
पापास्तिष्ठन्ति चेन्मातुर्मरणं भवति ध्रुवम् ॥२॥ पञ्चमे यदि पापाः स्युर्जातः पुत्रो विपद्यते । द्वादशे चन्द्रसंयुक्ते पुलवामा क्षिनाशनम् ॥३॥ व्ययस्थे भास्करे नश्येत् पुत्रदक्षिणलोचनम् । पापाः पश्यन्ति भानुं चेत् पितुर्मरणमादिशेत् ||४|| चन्द्र गायुक्त दृष्टे वा मातुर्मरणमादिशेत् । चन्द्रादित्यो गुरुः पश्येत् पित्रोः स्थितिमितीरयेत् ॥५॥ यदि लग्नगतो राहुर्जीवदृष्टिविवर्जितः । जातस्य मरणं शीघ्र भवेदत्व न संशयः ॥६॥ द्वादशस्थ किचन्द्रौ नेत्रयुग्मं विनश्यति । षष्ठे वा पञ्चमे पापाः पश्यन्तीन्दुदिवाकरौ ॥७॥ पित्रोर्मरणमेवास्ति तयोर्मन्दः स्थितो यदि । भ्रातृनाशं तथा भौमे मातुलस्य मृतिं वदेत् ॥ ॥ उदयादिनिकस्थेषु कण्टकेषु शुभा यदि । मित्रस्वात्युच्चवर्गेषु सर्वारिष्टं विनश्यति ॥ ॥ लग्नञ्च चन्द्रलग्नञ्च जीवो यदि न पश्यति । पापा: पश्यन्ति चेत्पुत्रो व्यभिचारेण जायते ॥ १० ॥ इति ज्ञात्वा वदेद्धीमान् शास्त्र ज्ञानप्रदीपके । इति सुतारिष्टकाण्डः ।
अथ क्षुरिकाकाण्ड |
क्षुरिकालक्षणं सम्यक् प्रवक्ष्यामि यथा तथा । राहुणा सहिते चन्द्र शत्रु भंगो भविष्यति ॥ १॥ नीचारिस्थास्तु पश्यन्ति यदि खड्गस्य भंजनम् । शुभग्रहयुते चन्द्रे द्वष्टे शास्त्र शुभं वदेत् ॥२॥ पापग्रहसमे तेषु छत्रारूढोदयेषु च । तेषु दृष्टः स्थितः किन्तु तदस्त्रेण हतो अथवा कलहः खङ्गः परेणापहृतो तेषु स्थानेषु सौम्येषु खड्गस्तु शुभदो भवेत् ॥४॥
भवेत् ॥३॥
भवेत् ।
Aho! Shrutgyanam