________________
ज्ञान- प्रदीपिका ।
अथ पुत्रोत्पत्तिकाण्डः । पुत्रोत्पत्तिनिमित्तेषु प्रश्ने त्रीभिः कृते सति । छत्रारूढोये जीवो राहुश्चेद्गर्भमादिशेत् ॥ १ ॥ arrar aorat faकेाणे सप्तमेऽपि वा । बृहस्पतिः स्थितो वापि यदि पश्यति गर्भिणी ॥२॥ शुभवर्गेण युक्तश्चेत् सुखप्रसवमादिशेत् । रिनीचग्रहैर्युक्त सुतारिष्टं भविष्यति ॥३॥ प्रश्नकाले तु परिधौ दृष्टे गर्भवती भवेत् । तदन्तस्थग्रहवशात् पुंस्त्रीभेदं वदेद्बुधः ॥४॥ यत्र तत्र स्थितश्चन्द्रः शुभयुक्त तु गर्भिणी । लग्नानिवभूतेषु शुक्रादित्येन्दवः क्रमात् ॥५॥ तिष्ठन्ति चेन्न गर्भः स्यादेकत्रैते स्थितान् च । स्त्रीपुंविवेके गर्भिण्यः पृष्टे वा तत्त्रकालिके ॥६॥ परिवेपादिकैः द्वष्टे तस्या गर्भो विनश्यति लग्नादोजस्थिते चन्द्र पुत्र सुते समे सुताम् ॥७॥ शान्नक्षत्रराशीनां यथा योगं सुतं सुताम् । लग्नतृतीयनवमे सप्तमैकादशेऽपिवा ॥ ८५ ॥ भानुः स्थितश्चेत् पुत्रः स्यात्तथैव च शनैश्वरः । ओजस्थानगताः सर्वे ग्रहाश्चेत्पुत्र संभवः || || समस्थानगताः सर्वे यदि पुत्री न संशयः । श्रारूढात्सप्तमं राशि यावच्छीतांशुरेष्यति ॥१०॥ तावन्नक्षत्रसंख्याकैः सा सूते दिवसे सुतम् ॥
इति पुत्रोत्पत्तिकाण्डः ।
अथ सुतारिष्टकाण्डः ।
सुतारिष्टमथो वक्ष्ये सद्यः प्रत्ययकारणम् । लग्नषष्ठे स्थिते चन्द्र तदस्ते पापसंयुते ॥ १ ॥ मातुः सुतस्य मरणं किन्तु पञ्चमषष्ठयोः ।
Aho! Shrutgyanam
२६