________________
२८
ज्ञान-प्रदीपिका
अहिवर्गयुतश्चन्द्रो नीचस्त्रीभागवान्भवेत् । मित्रवर्गयुतश्चन्द्रो मित्रवर्गवधूरतिः ॥१२॥ स्वक्षेत्र यदि शीतांशुः स्वभार्यायां रतिर्भवेत् । उच्चवर्गयुतश्चन्द्रः स्वच्छवंशस्त्रियां रतिः ॥१३॥ उदासीनग्रहयुतो दृष्टोवा यदि चन्द्रमाः। उदासीनवधूभोगमितिप्राहुर्मनीषिणः ॥१४॥ लग्ने च दशमस्थेऽत्र पञ्चमे शनियुक् शशी। चोररूपेण कथयेत् रात्रौ स्वप्ने वधूरतिः॥१५॥ ओजोदयस्तदधिपे ओजस्थे त्वेकमैथुनम् । समोदये तदधिपे समस्थे द्विस्त्रियो रतिः ॥१६॥ लग्नश्वरवलं ज्ञात्वा तेषां किरणसंख्यया । अथवा कथयेत् द्विद्विसंदृष्टग्रहसंख्यया ॥१७॥ चन्द्र भौमयुते दृष्टे कलहेन पृथक् शयः । भृगौ सौरियुते दृष्टे स्वस्नीकलह उच्यते ॥१८॥ चतुथ च तृतीये च पञ्चमे सप्तमेऽपि वा। चन्द्र शुक्रयुते दृष्टे स्वस्त्रियो कलहो भवेत् ॥१६॥ तदीयवसनच्छेदं रचितं परिकीर्तयेत् । सप्तमे पापसंयुक्त दशमे पापसंयुते ॥२०॥ तृतीये बुधसंयुक्त स्त्रीविवादस्तले शयः । लग्ने चन्द्रयुते भौमे द्वितीयस्थे तथा निशि ॥२२॥ जागरश्वोरभीत्या च राशिनक्षत्रसन्धिषु । पृष्ठश्चेद्विधवाभोगमकरोदिति कीर्तयेत् ॥२२॥ तत्सन्धौ शुक्रसौम्यौ चेत् तत्तज्ज्ञातिपतिं वदेत् । यत्न कुत्रापि शशिनं पापाः पश्यन्ति चेत्तथा ॥२३॥ पुसि न प्रीयति वधूः शुभश्चेत्पुरुषप्रिया। सात्विकाश्चन्द्रजीवार्का राजसौ भृगुसोमजौ ॥२४॥ तामसौ शनिभूपुत्रौ एवं स्त्रीपुंगणाः स्मृताः।
इति कामकाण्डः।
Aho ! Shrutgyanam