________________
ज्ञान-प्रदीपिका।
शनिभौमौ यदि स्यातां सुरापानवती भवेत् । बुधः पुत्रवती जीवो धनधान्यवती वधूः ॥२०॥ सर्पादित्यौ स्थितौ बन्च्या शुक्र सुखतरी भवेत् ।
इति बिबाहकाण्डः
अथ कोमकाण्डः।
स्त्रीपुंसोरतिभेदाश्च स्नेहोऽस्नेहः पतिव्रता। शुभाशुभौ क्रमात्प्रोक्तो शास्त्र ज्ञानप्रदीपके ॥१॥ पृच्छतामुदयारूढकेन्द्रषु भुजगो यदि । तेषां दुष्टस्त्रियः प्रोक्ता देवानामध्यसंशयः ॥२॥ लग्नादेकादशस्थाने तृतीये दशमे शशी। जीवदृष्टियुतस्तिष्ठेत् यदि भार्या पतिवता ॥३॥ चन्द्र पश्यन्ति पुंखेटास्तेन युक्ता भवन्ति चेत् । तद्भार्या दुर्जनां ब्रूयादिति शास्त्रविदो विदुः ॥४॥ सप्तमस्थो द्विषत्खे?ई टोनीचारिंगः शशी । बन्धुविषिणी लोके भ्रष्टा सा तु शुभाशुभैः ॥५॥ भानुजीवौ निशाधीशं पश्यन्तौ वा युतौ यदि। पतिव्रता भवेन्नारी रूपिणीति वदेवुधः ॥६॥ शुक्रेण युक्तो दृष्टो वा भौमश्वेत्परभामिनी। बृहस्पतिर्बुधाराभ्यां युक्त चेत्कन्यकारतिः ॥७॥ शुक्रवर्गयुते भौमे भौमवर्गयुते भृगौ । पृच्छको विधवा भर्ता तस्या दोषो भवेद्धवम् ॥८॥ भानुवर्गयुते शुक्र राजस्त्रीणां रतिर्भवेत् । जीववर्गयुते चन्द्र स्नेहेन रतिमान् भवेत् ॥६॥ चन्द्रस्त्रिवर्गयुक्तश्चेत् स्त्री स्वातन्त्र्यवती भवेत् । पुराशौ पुरुवैद्दष्टे युक्ते वा पुरुषाकृतिः ॥१०॥ शनिश्चन्द्रण युक्तश्चेदतीव व्यभिचारिणी। पापवर्गयुते दृष्टे शुक्र चेद्वयभिधारिणी ॥११॥
Aho ! Shrutgyanam