________________
शा-नप्रदीपिका। शुभग्रहा द्वितीयस्था माङ्गल्यायुष्यवर्द्धना । तृतीये रविराहू चेत्सा वन्ध्या भवति ध्रुवम् ॥५॥ अन्ये तृतीयराशिस्था धनसौभाग्यवर्द्धना । चतुर्थेऽनिशानायौ तिष्ठतो यदि पापिनौ ॥६॥ शनिश्च स्तन्यहीना स्यादहिः सा पत्नवत्यसौ । बुधजीवारशुक्राश्चेत् अल्पजीयनवत्यसौ ॥७॥ पंचमे यदि सौरिः स्याद् व्याधिभिः पीडिता भवेत् । शुक्रजीवबुधाः स्युश्चेद्वहुपुत्रवती भवेत् ॥८॥ चन्द्रादित्यौ तु वन्ध्या स्यात् अहि चेन्मरणं भवेत् । आरश्चेत्पुत्रनाशः स्यात् प्रश्ने पाणिग्रहोचिते ॥६॥ षष्ठे शशी चेद्विधवा बुधः कलहकारिणी । षष्ठे तिष्ठति शुक्रश्चेदीर्घमाङ्गल्यधारिणी ॥१०॥ अन्ये तिष्ठन्ति चेन्नारी सुखिनी वृद्धिमिच्छति । सप्तमस्थे शनौ नारी तरसा विधवा भवेत् ॥११॥ परेणापता याति कुजे तिष्ठति सप्तमे । बुधजीवौ सन्मतिः स्याबाहुश्चेद्विधवा भवेत् ॥१२॥ व्याधिप्रस्ता भवेन्नारी सप्तमस्थो रविर्यदि । सप्तमस्थे निशाधीशे ज्वरपीड़ावती भवेत् ॥१३॥ शुक्रश्चेत्पुत्रसिद्धिः स्यात्सा वधूमरणं व्रजेत् । अष्टमस्थाः शुक्रगुरुभुजगा नाशयन्ति च ॥१४॥ शनिज्ञो वृद्धिदौ भौमवन्द्रौ नाशयतः त्रियम् ।
आदित्यारौ पुनर्भूः स्यात्लश्ने वैवाहिके वधूः ॥१५॥ नवमे यदि सोमः स्यात् व्याधिहीनो भवेद्वधूः। जीवचन्द्रौ यदि स्यातां बहुपुत्रवती वधूः ॥१६॥ अन्ये तिष्ठन्ति नवमे यदि बन्ध्या न संशयः। दशमे स्थानके चन्द्रो बन्ध्या भवति भामिनी ॥१७॥ भार्गवो यदि वेश्या स्यात् विधवार्किकुजावुभौ। रिक्ता गुरुश्चेज्ज्ञादित्यौ यदि तस्याः शुभं वदेत् ॥१८॥ लाभस्थानगताः सर्वे पुत्रसौभाग्यवर्द्धकाः । लग्नद्वादशगश्चन्द्रो यदि स्यान्नाशमादिशेत् ॥१६॥
Aho ! Shrutgyanam