________________
ज्ञान- प्रदीपिका ।
अथ निमित्तकाण्डः ।
प्रथेोभय पथिको दुर्निमित्तानि पश्यति । स्थिरोदये निमित्तानां विरोधेन न गच्छति ||१|| चरोदये निमित्तेन समायातीति निर्दिशेत् । चन्द्रोदये दिवाभीतशशपारावतादयः ॥२॥ शकुनं भवता दृष्टमिति ब्रूयाद्विचक्षणः । राहूदये तथा काकभारद्वाजादयः खगाः ॥३॥ मन्दोदये कुलिंगः स्यात् ज्ञोदये पिंगलस्तथा । सूर्योदये च गरुड़ः शुक्रः सव्यवशाद्वदेत् ||४|| स्थिरराशौ स्थिरान् पश्येत् चरे तिर्य्यगतांस्तथा । उभयेऽध्वनि वृद्धिः स्यात् ग्रहस्थितिवशाद्वदेत् ||५|| राहोगौलिविधोश्चात्र ज्ञस्य चूचुन्दरी भवेत् । दधिशुक्रस्य जीवस्य क्षीरसर्पि रुदाहरेत् ॥६॥ भानोश्च श्वेतगरुड़ : शिवा भौमस्य कीर्त्तिता । शनैश्चरस्य वह्निश्च निमित्तं दृष्टमादिशेत् ॥७॥ शुक्रस्य पक्षिणो ब्रूयात् गमने शरान् बकान् । जीवकाण्डप्रकारेण पक्षिणोऽन्यान्विचारयेत् ||८||
इति निमित्तकाण्डः
अथ विवाहकाण्डः ।
प्रश्ने वैवाहिके लग्ने कुजसूर्यावुभौ यदि । वैधव्यं शीघ्रमायाति सा बधूनैति संशयः ॥ १ ॥ उदये मन्दगे नारी रिक्ता मृतसुता भवेत् । चन्द्रोदये तु मरणं दम्पत्योः शीघ्रमेव च ॥२॥ शुक्रजीवबुधा लग्ने यदि तौ दीर्घजीविनौ । द्वितीयस्थे निशानाथे बहुपुत्रवती भवेत् ||३|| स्थिता यद्यर्कमन्दारा मनः शोको दरिद्रता । द्वितीये राहुसंयुक्त सा भवेत् व्यभिचारिणी ॥४॥
Aho! Shrutgyanam
२५