________________
शान-प्रदीपिका।
अथ सेनाकाण्डः। सेनस्यागमनं वक्ष्ये शत्रोरागमनं तथा । चरोदये चरारूढे पापाः प्रञ्चमगा यदि ॥१॥ सेनागमनमस्तीति कथयेच्छास्त्रवित्तमः । चतुष्पादुदये जाते युग्मै राभ्युदयोऽपि वा ॥२॥ लग्नस्याधिपतौ के सेना प्रतिनिवर्तते । आरूढादुदयाः कुम्भकुलीरालिझषा यदि ॥३॥ चरोदये चरारूढे भौमार्किगुरवो यदि। चतुर्थकेन्द्र बलिनो यदि सेना निवर्तते ॥४॥ तिष्ठन्ति यदि पश्यन्ति सेना याति महत्तरा। आरूढे स्वामिमित्रोच्चाहयुक्तऽथ वीक्षिते ॥५॥ स्थायिनो विजयं ब्रूयात् यायिनश्च पराजयम् । एवं छो विशेषोऽस्ति विपरीते जयो भवेत् ॥६॥ आरूढे बलसंयुक्त स्थायी विजयमाप्नुयात् । यायी विजयमाप्नोति छत्र बलसमन्विते ॥७॥ प्रारूढे नीचरिपुभिम्र हैर्युक्त ऽथ वीतिते। स्थायी परगृहीतस्य छत्रेऽप्येवं विपर्यये ॥६॥ शुभोदये तु पूर्वाह्न यायिनो विजयोभवेत् । शुभोदये तु सायाह्न स्थायी विजयमाप्नुयात् ॥६॥ छनारूढाये वापि पुंराशौ पापसंयुते। तत्काले पृच्छतां सद्यः कलहो जायते महान् ॥१०॥ पृष्ठोदये तथारूढे पापयुक्त ऽथ वीक्षिते । दशमे पापसंयुक्ते चतुष्पादुदयेऽपि वा ॥११॥ कलहो जायते शीघ्र सन्धिः स्याच्छुभवीतिते । दशमाद्राशिषट्केषु शुभराशिषु चेत् स्थिताः ॥१२॥ स्थायनो विजयं ब्रूयात् तवं चेन्द्रियोर्जयम् । पापग्रहयुते तवन्मिश्रे सन्धिः प्रजायते ॥१३॥ उभयत्र स्थिताः पापाः बलवन्तः समो जयः । तुर्यादिराशिभिःषड्भिरागतस्य फलं वदेत् ॥१४॥ (तदन्य राशिभिः षड्भिः स्थायिनः फलमादिशेत् )
Aho ! Shrutgyanam