________________
२२
ज्ञान- प्रदीपिका ।
द्वितीये भानुसंयुक्त दशमे पापसंयुते । दशाहान्मरणं ब्रूयात् शुक्रजीबी तृतीयगौ ॥१०॥ सप्ताहान्मरणं ब्रूयात् रोगिणामहि बुद्धिमान् । उदये चतुरस्रवा पापास्त्वष्टदिनान्मृतिः ॥ ११ ॥ लग्नद्वितीयगाः पापाचतुर्दशदिनान्मृतिः । लग्नाद्विनिधने पापा दशमे पापसंयुते ||१२|| त्रिदिनान्मरणं किन्तु दशमे पापसंयुते । तस्मात्सप्तमगे पापे दशाहान्मरणं भवेत् ||१३|| निधनारूढगे पापे दृष्टे वा मरणं भवेत् । तत्तद्ब्रहवशादेवं दिनमासादिनिर्णयः ||१४|| इति मरणकाण्डः
**
अथ स्वर्गकाण्डः ।
ग्रहोच्चैः स्वर्गमायाति रिपौ मृगकुले भवः । नीचे नरमायाति मिले मित्रकुलोद्भवः ||१|| स्वक्षेत्र स्वजने जन्म मृतानां तु वदेत् सुधीः । इति स्वर्गकाण्डः
अथ भोजनकाण्डः ।
कथयामि विशेषेण भुक्तद्रव्यस्य निर्णयम् । पाकभाण्डानि युक्तानि व्यंजनानि रसं तथा ॥१॥ सहभोक्तन् भोजनानि तद्दातृ स्ते हितान् रिपून् । मेषराशौ भवेच्छागं वृषभे गव्यमुच्यते ॥२॥ धनुर्मिथुन सिंहेषु मत्स्यमांसादिभोजनम् । नकालिकर्किमीनेषु फलभक्ष्यफलादिकम् ||३||
तुला कन्या घटेष्वेवं शुद्धान्नमिति कीर्त्तयेत् । भानोस्तिक्तकटुक्षारमिश्रं भोजनमुच्यते ||४||
Aho! Shrutgyanam