________________
ज्ञान-प्रदीपिका। उष्णान्नक्षारसंयुक्त भूमिपुत्रस्य भोजनम् । भर्जितान्युपदं सौरेः सौम्यस्याहुर्मनीषिणः ॥५॥ पायसान्नं घृतैर्युक्त गुरो जनमुच्यते । भृगो नारसयुतं शुद्धशाल्यन्नमीरितम् ॥६॥ सतैलं कोद्रवान्नञ्च प्राचीनान्नं शनेर्वदेत् । राहास्तुभिः सहान्नं स्याद्रसवर्ग उदाहृतः ॥७॥ जीवस्य माषवटकं नूनं मिनस्य भोजनम् । चन्द्रस्य कन्दप्रसवौ मत्स्याद्य भॊजनं भवेत् ॥८॥ तौद्रापूपपयोयुग्भिोजनं व्यंजनैभृगाः । प्रोजराशौ शुभै तृष्णया भोजनं भवेत् ॥६॥ समराशौ शुभैदष्टे उष्णं स्वादु च भोजनम् । ओजराशौ दुष्टदृष्टे दुष्टभोजनमादिशेत् ॥११॥ समराशौ शुभेप्टे उष्णं स्वादु च भोजनम् । समराशौ मन्तृष्णो भुङ्क्त ऽल्पं पापवीक्षिते ॥११॥ केचित्पश्यन्ति पापश्चत् पुराणान्नं क्षुधार्तितः। अर्कारौ मांसभोक्तारौ उशनाश्चन्द्रभोगिनौ ॥१२॥ नवनीतधृतक्षीरदधिभिर्भोजनं भवेत् । जलराशिषु पापेषु ससौम्येषूदितेषु च ॥१३॥ सतैलं भोजनं ब्रूयादिति ज्ञात्वा विचक्षणः। पूर्वोक्तधातुवर्गेण भोजनानि विनिर्दिशेत् ॥१४॥ मूलवर्गेण शाकादीनुपदंशान् वदेब्रुधः । जीववर्गेण भुक्त्वा च मत्स्यमांसादिकानपि ॥१५॥ सर्वमालोड्य निश्चित्य वदेन्नृणां विचक्षणः ।
इति भोजनकाण्डः।
अथ स्वप्नकाण्डः। स्वप्न यानि च पश्यन्ति तानि वक्ष्यामि सर्वदा । शिरोदये देवगृहं प्रासादादीन् प्रपश्यति ॥१॥
Aho ! Shrutgyanam