________________
शा-नप्रदीपिका। शिश्नमन्दोरवः प्रोक्ता उत्तराद्या नवोडवः । जानुजंघापादसन्धिपृष्ठान्तस्तलगुल्ककम् ॥२१॥ पादान नखरांगुल्यो वैश्वाद्याश्चोडवो नव । उद्यविशादेवं ज्ञात्वा तत्र गदं वदेत् ॥२२॥ अंगनक्षत्रकं ज्ञात्वा नष्टद्रव्यं तथा वदेत् । त्रिकोणलग्नदशमे शुभश्चद् व्याधयो नहि ॥२३॥ तेषु नीचारियुक्तषु देहपीडा भवेन्नृणाम् ।
इति रोगकाण्डः
अथ मरणकाण्डः। मरणस्य विधानानि ज्ञातव्यानि मनीषिभिः । वृषस्य वृषभच्छत्र सिंहच्छत्र हरेर्भवेत् ॥१॥ अलिनो वृश्चिकच्छत्र कुम्भच्छत्र घटस्य घ । उच्चस्थानमितिज्ञात्वा रूढेः स्यादुदये यदि ॥२॥ मरणं न भवेत्तस्य रोगिणो नात्र संशयः । तुलायाः कार्मुकच्छ्रत्र नीचोमृत्युर्विपर्यये ॥३॥ मेषस्य मिथुनच्छन नीचोमृत्युर्विपर्यये । नक्रस्य मीनच्छत्र च नीचोमृत्युर्विपर्यये ॥४॥ कन्याच्छत्र कुलीरस्य नीचोमृत्युर्विपर्यये । नीचश्च द्वयाधिमोक्षो न मृत्युर्मरणमादिशेत् ॥५॥ प्रहेषु बलवान् भानुर्यदि मृत्युस्तदाग्निना । मन्दः क्षुधा जलेनेन्दुः शीतेन कविरुच्यते ॥६॥ बुधस्तुषारवाताभ्यां शस्त्र णोरो बली यदि ।। राहुर्विषेण जीवस्तु कुतिरोगेण नश्यति ॥७॥ विधोः षष्ठाष्टमे पापः सप्तमे वा यदि स्थितः। रोगमृत्युस्तुलाभ्यां वा रोगिणां मरणं भवेत् ॥८॥ आरूढान्मरणस्थानं तस्मादष्टमगः शशी । पापाः पश्यन्ति चेन्मृत्यु रोगिणां कथयेत्सुधीः ॥६॥
Aho ! Shrutgyanam