________________
ज्ञान-प्रदीपिका। पक्षःस्थलं स्तनौ कुक्षिः कटि-मूलं च मेहनम् । उरू पादौ च मेषाद्या राशयः परिकीर्तिताः ॥६॥ कुजो मूनि मुखे शुक्रः कन्धरे भुजयोर्बुधः । चन्द्रो वक्षसि कुक्षौ च भानु मेरधोगुरुः ॥७॥ उर्वोः शनिरहिः पादे ग्रहाणां स्थानमीरितम् । स्थानेष्वेतेषु नष्टच भवेदेतेषु राशिषु ॥८॥ पापयुक्तेषु दृष्टषु नीचारिष्टेषु रुग्भवेत् । पश्यन्ति चेद्ग्रहाश्चन्द्र व्याधिस्थानावलोकनम् ॥६॥ पूर्वोक्तमासवर्षाणि दिनानि च वदेत्सुधीः । षष्ठाटमे पापयुते रोगशान्तिन जायते ॥१०॥ षष्ठाष्टमे शुभयुते रोगः शाम्यति सर्वदा । कश्चित्तत्र विशेषोऽस्ति रोगमृत्युस्थले शुभम्॥११॥ यावद्भिर्दिवसैर्यान्ति तावद्भिाधिमोचनम् । रोगस्थानं भवेदस्ते पापखेट्युते तथा ॥१२॥ तत्षष्ठे चन्द्रसंयुक्ते रोगिणां मरणां भवेत् । रोगस्थानं कुजः पश्येच्छिरोवेधो ज्वरं भवेत् ॥१३॥ भृगुर्विसूची सौम्यश्चेत् कक्षप्रन्थिभविष्यति । . तथा चेदुद्रव्याधिः शनिर्वातश्च पङ्गुता ॥१४॥ राहुविषं शशी पश्येन्नेत्ररोगो भविष्यति । मूलव्याधिगुरुः पश्येच्चन्द्रवत् स्याभृगोः परे ॥१५॥ परिधाविन्द्रकोदण्डे षष्ठे लग्ने युते क्षिते । कुष्टव्याधिरिति ब यात् धूमे भूताहतं भवेत् ॥१६॥ सर्वापस्मारमादित्ये पिशोचपरिपीडनम् । श्वासः काशश्च शुलश्च शनौ शीतज्वरं कुजे ॥१७॥ कामुके दण्डपरिधौ दृष्टे प्रश्ने तु रोगिणाम् । न व्याधिशमनं किञ्चिल्लग्नं पश्यन्ति चेत् शुभाः ॥१८॥ रोगशान्तिर्भवेच्छीघ्र मित्रस्वात्युच्चसंस्थिताः। शिरोललाटे भ्रू नेत्रे नासाश्रुत्यधराःस्मृताः॥१६॥ चिबुकश्चाङ्गलिश्चैव कृत्तिकाद्युडवो नव । कण्ठवक्षःस्तनं चैवादरमध्यनितम्बकाः ॥२०॥
Aho ! Shrutgyanam