________________
शान-प्रदीपिका।
नष्टप्रश्ने न नष्ट स्यात् मृत्युप्रश्ने न नश्यति । पापदृष्टियुते केन्द्र भूयात्तस्य विपर्ययः ॥७॥ शनोरागमनं नास्ति चतुर्थे पापसंयुते । इति केन्द्रफलं सौम्याः स्थिताश्चेत्सर्वसिद्धयः ॥८॥ उदयारूढछत्रेषु केन्द्रषु भुजगो यदि । दूरस्थितो न चायाति तत्र बद्धो भविष्यति ॥६॥ विषादिपीडा-प्रश्ने तु रोगिणां मरणं भवेत् । गमने चिन्तिते प्रष्टुर्नास्तीति कथयेद्बुधः ॥१०॥ प्रारब्धकार्यहानिश्च धनस्याहतिरीरिता । चन्द्राव्योमस्थिते शुक्रे जीवाढ्योमस्थिते रखौ ॥११॥ तल्लग्ने कार्यसिद्धिः स्यात् पृच्छतां नात्र संशयः । उदयात्सप्तमे व्योनि शुक्रश्चेत् स्त्रीसमागमः ॥१२॥ धनागमश्च सौख्यञ्च चन्द्रऽप्येवं प्रकीर्तितम् । मित्रः स्वात्युञ्चमायान्ति यदा खेटास्तथेष्टदाः ॥१३॥ नीचारिमूढमापन्नाः... सर्वकार्यविनाशिनः ।
इति लाभालाभकाण्डः
-
-
-
अथ रोगकाण्डः । पूर्वशास्त्रानुसारेण मृत्युव्याधिनिरूपणम् । उदयात् षष्ठभे व्याधिः अष्टमे मृत्युरुच्यते ॥१॥ षष्ठारूढे ज्याधिचिन्ता निधने मृत्युचिन्तनम् । तत्तद्ग्रहयुते दृष्ट व्याधि मृत्युं वदेत् क्रमात् ॥२॥ पापनीचारयः खेटाः पश्यन्ति यदि संयुताः। न व्याधिशमनं मृत्युमविचार्य वदेत् सुधीः ॥३॥ एतयोश्चन्द्रभुजगौ तिष्ठतो यदि चोदये ।। गरादिना भवेद् व्याधिः न शाम्यति न संशयः ॥४॥ पृष्ठोदयते तच्छत्र व्याधिमोक्षो न जायते ।। व्याधिस्थानानि चैतानिमूर्धा वक्रं भुजः करः ॥५॥
Aho ! Shrutgyanam